________________
श्रीभग लघुवृत्ता
८ शतके १ उद्देशः
HASINImpimmismmmiumiamailgime Mitwimmurghumarimmmmmmmms
| परिणतपुद्गलानिरूपयति, तत्र च 'एगिदिए' त्यादि, एफेन्द्रियादेसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डकः, तत्र च 'आउकाइरागिदिय एवं चेति पृथ्वीवदप्कायप्रयोगपरिणता वाच्या इत्यर्थः, एवं 'दुपओत्ति पृथिव्यप्कायप्रयोगपरिणतेषिव द्विपदो भेदः सूक्ष्मवादरविधानाम्यां कृतस्तेजस्कायादिषु वाच्यः,'अणेगविह'त्ति पुलाककृमिकादिभेदत्वात् द्वीन्द्रियाणामनेकविधाः, त्रीन्द्रिय योगपरिणता अपि एवमनेकविधाः कुन्थुपिपीलिकादिभेदात् , एवं चतुरिन्द्रिया मक्षिकामशकादयोऽनेकविधाः, एवं सर्वेऽपि वाच्याः १, अथैकेन्द्रियादिसर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकः प्रारभ्यते, तत्र-'एक्केके त्यादि, एकैकस्मिन् काये सूक्ष्मवादरभेदा द्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं पर्यासकायपर्याप्तकमेदात् पुनर्द्विधा वाच्या इत्यर्थः २, 'जे पजत्तसुहुमपुढवी'त्यादि, औदारिकादिवपुर्विशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेयाकम्मसरीरपओग'त्ति औदारिकतैजसकार्मणवपुषां यः प्रयोगस्तेन परिणता येते तथा, पृथिव्यादीनां हि एतदेव वपुस्वयं स्यादितिकृत्वा तत्प्रयोगपरिणता एव ते स्युः, 'जे पज्जत्ता बायर'त्ति बादरपर्याप्तकवायूनां त्वाहारकवर्जवपुश्चतुष्टयं स्यात् , एवं 'गम्भवकंतियअपज्जत्तग'त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिका अपि अपर्याप्तका नरास्त्रिशरीरा एवेति ३, अथ सर्वजीवेन्द्रियविशेषणश्चतुर्थो दण्डकः४,'जे अपज्जत्तसुहुमपुढवी'त्यादिः, औदारिकादिशरीरस्पर्शादीन्द्रियार्थः पञ्चमः, एवं चेव'त्ति एवमेव सर्वैकेन्द्रियजीवेषु 'चउक्कएणं ति सूक्ष्म १ बादर २ पर्याप्तक ३ अपर्याप्तक ४ चतुष्कभेदेन भावात् , अथ सर्वजीववर्णगन्धरसस्पर्शसंस्थानवाच्यः षष्ठः, एवमौदारिकादिशरीरवर्णादिभावविशेषणस्सप्तमः, इन्द्रियवर्णादिविशेषणोऽष्टमः, शरीरेन्द्रियवर्णादिविशेषणो नवमः, मिश्रपरिणतेष्वप्येत एव नव दण्डका वाच्याः । एवं जहा पण्णवणाए'त्ति, तत्रैवमिदं सूत्रम्