SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीमग ८ शतके १ उद्देश: गत्वा दूरे निपतंतीत्यर्थः, 'देसगयत्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेः देशे तदर्डादौ, गमनस्वभावेऽपि देशे तदर्डादौ निपततीत्यर्थः ॥ सप्तमशते दशम उद्देशकः॥ इतिश्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्य श्रीदानशेखरगणिसमुद्भूतायां भगवतीलघुवृत्तौ सप्तमशतविवरणं सम्पूर्णम् ॥ अथाष्टमं शतकं 'पुग्गल'त्ति (*५७) पुदगलपरिणामार्थः१'आसिविसत्ति आशीविषादिविषयः २ 'रुक्ख'त्ति सङ्ख्यातजीवादिवृक्षरूपः ३ 'किरियत्ति क्रियारूपः ४ 'आजीव'त्ति आजीविकवक्तव्यतारूपः ५,'फासुगति प्रासुकदानादिरूपः ६ 'अदत्त'त्ति अदचादानरूपः ७ 'पडिणीय'त्ति प्रत्यनीकतार्थरूपः ८ 'बंध'त्ति प्रयोगबन्धादिरूपः ९ देशाराधनादिरूपः १० इत्योधतः सङ्ग्रहगाथा उक्ता । 'पओगपरिणय'त्ति (मू. ३०९) जीवव्यापारेण शरीरादिप्रयोगपरिणताः १ 'मीसा परिणता' (मू. ३१०) प्रयोगविस्रसाभ्यां परिणताः, प्रयोगपरिणाममत्यजन्तो विश्रसया स्वभावान्तरमापादिताः मुक्तकलेवरादिरूपाः २, अथवा औदा| रिकादिवर्गणारूपा विश्रसया कृतास्सन्तो ये जीवप्रयोगेणैकेन्द्रियादिवपुःप्रभृतिपरिणामान्तरमापादिताः ते मिश्रपरिणताः, ननु प्रयोगपरिणामोऽप्येवमेव ततः क एषां विशेषः १, सत्यं, किन्तु प्रयोगपरिणतेषु वित्रता सत्यपि न विवक्षिता इति, विस्ससापरिणय'त्ति (सू. ३११) स्वभावपरिणताः॥ अथ 'पओगपरिणया ण'मित्यादिना (सू.३१२) ग्रन्थेन नवभिर्दण्डकैः प्रयोग
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy