________________
श्रीभग
लघुवृत्तौ
विद्या
பொடு பாப் பாடிப் பாடிப் பாடி பப்பப்பா பாபா மாமா
BAATALARIA
'जे रसपरिणया ते पंचविहा, तंजहा-तित्तरसपरिणया कडुयरस कसाय० अंबिल महुररसपरिणया, जे फासपरिणया ते अट्ठ-Tule शतके विहा पण्णत्ता, तंजहा-कक्खडफासपरिणया एवं मउय० गुरुय० लहुय० सीय० उसिण सिणिद्ध० लुक्खफासपरिणया'इत्यादि ॥ अथैकं पुद्गलद्रव्यमाश्रित्य परिमाणं चिन्तयन्नाह-'एगे'इत्यादि, मणप्पओ'त्ति मनस्तया परिणतं 'वइप्पओ'त्ति भाषाद्रव्यं | काययोगेन गृहीत्वा वाग्योगेन सृज्यमानं वाक्प्रयोगपरिणतं, 'कायप्पओ'त्ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणा द्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतं, 'सच्चमणे ति सद्भूतार्थचिन्तनहेतोर्मनसः प्रयोगः सत्यमनःप्रयोगः, एवमन्येऽपि, नवरं मृषा-असद्भूतोऽर्थः, सत्यामृषा-मिश्रो, यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति,सत्यमृषाविपरीता असत्यामृषा, तत्स्वरूपमिदं-यथा देहीति, 'आरंभसच'त्ति आरम्भो-जीवोपघातः तत्सत्कं सत्यमारंभसत्यं तद्विषयो मनःप्रयो| गस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि, अनारम्भो-जीवदया, 'सारंभ'त्ति संरम्भो-वधसङ्कल्पः, समारम्भस्तु परिताप इति, 'ओरालिय'त्ति औदारिकशरीरकायप्रयोगः स पर्याप्तकस्यैव वेदितव्यः तेन यत्परिणतं तत्तथा, 'ओरालियमीस'त्ति औदारिकमुत्पत्तिकाले सम्पूर्ण सत् मिश्रं कार्मणेनेत्यौदारिकमिश्रं तल्लक्षणं शरीरं औदारिकमिश्रशरीरं तदेव कायः तस्य यः प्रयोगस्तेन परिणतं यत्तथा, अयं पुनरपर्याप्तकस्यैव, यदुक्तम्-"जोएण कम्मरणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥" एवं तावत्कार्मणेनौदारिकवपुषो मिश्रता, उत्पत्तिमाश्रित्य तस्य प्रधानत्वात् , यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो नरः १ पश्चेन्द्रियतिर्यग्योनिकः २ पर्याप्तवादरवायुकायिको वा ३ वैक्रियं कुर्यात् तदौदारिककायप्रयोग एव वर्त|मानः प्रदेशान् विक्षिप्य वैक्रियवपुर्योग्यान पुद्गलान् गृहीत्वा यावद्वैक्रियवपुःपर्याप्यां पर्याप्तिं व्रजेत् तावद्वैक्रियेणौदारिकवपुषो
mm
thi
le lu