________________
श्रीभग लघुवृत्तौ
७ शतके ८.उद्देश:
से चनाख्यगन्धगजे समारूढौ दिव्यकुण्डलदिव्यवस्वालङ्कृतौ दृष्ट्वा कूणिकराजपनी पद्मावती मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ, तौ च तद्भयाद्वैशालीनगर्या निजमातामहचेटकराज्ञोऽन्तिकं सगजौ सान्तःपुरपरिच्छदौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ, न च तेन प्रेषितौ, ततः कूणिकेन भाणितं-यदि न प्रेषयसि तौ तदा युद्धमजो भत्र, तेनापि भणितं-एष सजोऽस्मि, ततः कूणिकेन कालादयो दश खकीयभिन्नमातृकाः भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायाहूताः, तत्रैकैकस्य त्रीणि गजानां सहस्राणि, एवं रथानामश्वानां, नराणां च प्रत्येकं तिस्रः कोटयः, कूणिकस्याप्येवमेव, एनं व्यतिकरं मत्वा चेटकेनापि अष्टादश गणराजा मीलिताः, तेषां चेटकस्य चैवमेव प्रत्येकं गजादिपरिमाणं, मिथो युद्धं लग्नं, चेटकराजश्च प्रतिपन्नप्रतिज्ञतया दिनमध्ये एकमेव शरं मुश्चति, अमोववाणश्च सः, तत्र कूणिकसैन्ये गरुडव्यूहः चेटकानीके शकटव्यूहो विरचितः, ततश्च कूणिकस्य कालो | दण्डनायको युद्ध्यमानस्तावद् गतो यावच्चेटकः, ततस्तेनैकशरपातेनासौ निपातितः, भग्नं च कूणिकवलं, गते च द्वे अपि बले निज
२ स्थानं, एवं च दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे दिने चेटकजयार्थ देवताराधनाय कूणिकोऽष्टम| भक्तं जग्राह, ततः शक्रचमरावागतौ,शको बभाषे-चेटकः श्राद्ध इत्यहं न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रसदृशं अभेद्यकवचं कृतवान् , चमरस्तु द्वौ संग्रामौ विकुर्वितवान्-महाशिलाकण्टकं रथमुशलं चेति ॥'जइत्थ'त्ति(म. ३०१) जितवान् , 'पराजइत्यत्ति पराजितवान् , हारितवानित्यर्थः, 'वजी'वज्री-शक्रः, 'विदेह'त्ति कूणिकः, एतावेव तत्र जेतारौ, नान्यः कश्चित् , 'मल्लइ'त्ति मल्लकिनामानो नव राजानः 'कासीकोसल'त्ति काशी-वाराणसी तत्सम्बन्धिनः आद्या नव कोशलाअयोध्या, तद्वासिनो भृपा इत्यर्थः, नव द्वितीयाः,'गणरायाणोत्ति कार्ये समुत्पन्ने ये गणं कुर्वन्ति ते गणराजाः, सामन्ता इत्यर्थः,