SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीभग०! लघुवृत्तौ द्वात्रिंशद्भागमात्रा, चतुःषष्टिका तस्यैव चतुःषष्टितमांशस्वभावा, पलमिति तात्पर्यं, 'दीवाचं पण 'ति दीपकचम्पन केन - दीपाच्छादनेन, कोशकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यते इति || 'सव्वे से दुक्खे' त्ति (सू. २९४ ) दुःखहेतुसंसारनिबन्धनत्वाद्दुःखं, ' से सुहे' त्ति सुखस्वरूपमोक्ष हेतुत्वात् यन्निजीर्णं कर्म तत्सुखमुच्यते । नारकादयश्च संज्ञिन इति संज्ञा आह- 'सण्ण' त्ति (सू. २९५) संज्ञानं संज्ञा, आभोग इत्यर्थः, अष्टौ संज्ञाः कण्ठ्याः, मतिज्ञानावरणक्षयोपशमाच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायते वस्त्वनयेत्योघसंज्ञा, एवं शब्दार्थगोचरा विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा ज्ञानोपयोग इति, 'परज्झं' ति पारवश्यं 'पंडियत्तं असासयं'ति अयमर्थो - जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रभ्रंशादिति ॥ सप्तमशतेऽष्टम उद्देशकः ॥ 'असंवुडे’त्ति (सू. २९८) असंवृतः - प्रमत्तः 'इहगए 'त्ति इह प्रच्छको गौतमादिस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकः, ततश्चेहगतान्-नरलोकगतान् 'तत्थगए' त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः, 'अन्नत्थ'त्ति उक्तस्थानद्वया| दन्यत्र व्यवस्थितानित्यर्थः, 'नवरं'ति अयं विशेष:- 'इहयं'ति इह शते अनगारो यतिरिहगतान् पुद्गलानिति वाच्यं तत्र तु देव इति तत्रगतानित्युक्तं चेति । 'णायमेयं' ति ( मू. ३००) ज्ञातं सामान्यतः एतद् वक्ष्यमाणं वस्त्वर्हता भगवता वीरेण, सर्वज्ञत्वात्, तथा 'सुर्य'ति स्मृतमिव स्मृतं, स्पष्टप्रतिभाससद्भावात् विज्ञातं विशेषतः, किं तदित्याह - 'महासिलाकण्टको' जीवितभेदकत्वान्महाशिलाकण्टकः, यत्र तृणशूकादिनाऽभिहतस्य हस्त्यादेर्महाशिला कण्टकेनेव पीडितस्य वेदना स्यात् स संग्रामो महाशिला कण्टकसङ्ग्राम उच्यते, अयं सङ्ग्राम एवं जातः, यथा - चम्पायां कोणिको नृपोऽभूत् तस्यानुजौ हल्लविहल्लाख्यौ भ्रातरौ ७ शतके ८ उद्देशः | ॥११०॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy