________________
श्रीभग०
७ शतके ८ उद्देशः
लघुवृत्ती
नीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना-आच्छादिता येते तथा, 'अकाम'त्ति अकामो-वेदनानुभवे अनिच्छा अमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणं-अज्ञानप्रत्ययमिति यथा स्यात्तथैव, वेदनां सुखदुःखरूपां वेदनं वा संवेदनमनुभवन्तीत्यादि, अत्थी' त्यादि, अस्त्ययं पक्षो यदुत 'पभूवि'त्ति प्रभुरपि-संज्ञित्वेन यथा तद्रूपवेदनादिज्ञाने समर्थोऽपि, आस्तामसंज्ञित्वेनाप्रभुरित्यपिशब्दार्थः, अकामनिकरणं अनिच्छाप्रत्ययमनाभोगात् यथा स्यादेवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु | 'जे णं'ति यः प्राणी संज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न प्रभुः-समर्थः विना प्रदीपेना
न्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुं एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, पुरओत्ति पुरतः 'अणिज्झाएत्ताणं'ति | अनिध्याय-चक्षुरव्यापार्य 'पासित्ति द्रष्टुं 'मग्गउत्ति मार्गत:-पृष्ठतः 'अणवयक्खित्ताणं ति अनवेक्ष्य-पश्चाद्भागमन वलोक्येति, 'पभूवित्ति प्रभुरपि संज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणं'ति प्रकामः-ईच्छितार्थप्राप्तितः प्रवर्द्धमानतयां प्रकृष्टोऽभिलाषः स एव निकरणं यथा स्यादेवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं'ति यो न प्रभुः समुद्रस्य पारं गन्तुं | तद्गतद्रव्यप्राप्त्यार्थित्वे सत्यपि तथाविधशक्तिवैकल्याद्, अत एव च यो न प्रभुः-समर्थः समुद्रस्य पारंगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयन्तीति ।। सप्तमशते सप्तम उद्देशकः॥
'एवं जहा रायप्पसेणइज्जेत्ति (सू. २९३) तत् सूत्रं चेदम्-‘समे चेव जीवे, से नूणं भंते ! हत्थीउ कुंथू अप्पकम्मतराए |चेव अप्पकिरियतराए चेव अप्पासवतराए चेव, कुंथूओ हत्थी महाकम्मतराए चेव३१, हंता! गोयमा!, कम्हा णं भंते ! हथिस्स |य कुंथुस्स य समे चेव जीवे ?, गोयमा! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवाय
(யாழ மாற்ற முடியா ராறைப்படி பாடி பரமமாக புறப்பாயா மாயமாய