SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ हेतुत्वात्, नो अजीवानां कामाः, कामासम्भवादिति । 'रूवि' मित्यादि, भुज्यन्ते - उपभुज्यन्ते वपुषा इति भोगा- गन्धरसस्पर्शत्रयरूपाः रूपिणो भोगाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, सच्चित्ता अपि भोगा गन्धादिप्रधानजीवशरीराणां केषाश्चित् समनस्कत्वात्, अचित्ता अपि ते, गन्धादिप्रधानजीवशरीराणां केषांचिदमनस्कत्वात्, 'जीवावि भोगि' त्ति जीवशरीराणां गन्धयुक्तत्वाजीवा भोगाः, 'अजीवावि भोगि' त्ति अजीवद्रव्याणां गन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा काम भोगि 'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युः, ते च स्तोका एव, नोकामिनो नोभोगिनस्ते च सिद्धा एव, ते च तेभ्यः प्रागुक्तेभ्योऽनन्तगुणाः, 'भोगि 'त्ति एकद्वित्रीन्द्रियास्तेभ्योऽनन्तगुणाः, वनस्पतीनामनन्तगुणत्वादिति । 'से नूणं' ति ( पू. २९० ) स नरो नूनं - निश्चितं भदन्त ! 'खीण' त्ति भोगास्सन्ति यस्य तद्भोगि - वपुस्तत्क्षीणं यस्य तपोरोगादिभिः स क्षीणभोगी - क्षीणतनुः, दुर्बल इत्यर्थः, 'उडाणेणं' उत्थानेन- ऊर्ध्वभवनेन 'कम्मेणं'ति गमनादिना 'बलेणं' ति देहप्राणेन 'वीरिएणं'ति जीवबलेन 'पुरिसकारति पुरुषाभिमानेन साधितस्वप्रयोजनेनेत्यर्थः, 'भोग भोगाई' ति मनोज्ञशब्दादीन् 'से नूणं'ति अथ भदन्त एवं - अनन्तरोक्तमर्थं वदथ यूयमिति प्रश्नः, पृच्छतोऽयमभिप्रायो - यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वात् न भोगी, अत एव न भोगत्यागी, अतः कथं निर्जरावान् १, कथं वा स्वर्गमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इण'त्ति, कस्माद् ?, यतः - 'पभू णं से'त्ति स क्षीणभोगी प्रभुः समर्थः । 'आहोहिए णं' ति अधोऽवधिको नियतक्षेत्र विषयावधिज्ञानी 'पर माहोहि 'त्ति परमावधिज्ञानी ॥ 'एगइया' ( सू २९१) एके केचन, न सर्वे सम्मूर्च्छिमा इत्यर्थः, 'अंध'त्ति अन्धा - अज्ञानाः मूढो - मूर्खस्तच्चश्रद्धानं प्रति एत एवोपमयोच्यन्ते - 'तमं'ति तमःप्रविष्टा इव तमः प्रविष्टाः 'तमपडल'त्ति तमः पटलमित्र तमःपटलं- ज्ञानावरणं मोहो-मोह PCGOLBOLSOCJOCDOCDOCDO! ७ शतके ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy