________________
श्रीभग० लघुवृत्तौ
न दुःखस्य करणं अदुःखनं तद्भावस्तत्ता तया अदुःखनतया, अदुःखकरणेनेत्यर्थः, 'असोयण' त्ति अशोचनतया दैन्यानुत्पादनेनेत्यर्थः, 'अजूरण' त्ति शरीरापचयकारिशोकानुत्पादनेनेत्यर्थः, 'अतिप्पण'त्ति अश्रुलालादिक्षरण कारणशोकानुत्पादनेन, 'अपिहण' त्ति यष्ट्यादिताडनपरिहारेण 'अपरिताव'त्ति शरीरपरितापानुत्पादनेन । दुःखप्रस्तावादिदमाह - 'उत्तमकट्ठपत्ताएं' त्ति उत्तमकाष्ठाप्राप्तायां, उत्तमावस्थां गतायामित्यर्थः, 'आगारभाव पडोयारे'त्ति आकारभावस्य आकृतिलक्षणपर्यायस्य प्रत्यव - तार:- अवतरणं आकारभावप्रत्यवतारः 'हाहाभूए' त्ति (सू. २८५ ) हाहेतिशब्दस्य दुःखार्तेन करणं हाहोच्यते तत् गतः - प्राप्तो | यः कालः स हाहाभूतः 'भंभाभूए' त्ति भंभेतिशब्दस्य दुःखार्त्तगवादिभिः करणं भम्भोच्यते, शेषं तथैव, 'कोलाहल' त्ति कोलाहल इहार्त्तशकुनिवृन्दध्वनिः, शेषं तथैव, 'समाणुभावे 'त्ति समा- दुष्पमदुष्पमाकालस्तस्यानुभावेन - सामर्थ्येन 'खरफरुस' त्ति अतिकठोरा धूल्या च मलिना ये वातास्ते 'दुव्विसहा' दुस्सहा: 'वाउल' त्ति व्याकुलाः 'संवहय'त्ति तृणकाष्ठादिसंवर्त्तका 'वाहिंति'त्ति वास्यन्ति, 'इह'त्ति अस्मिन् काले, 'अभिक्खं' अभीक्ष्णं 'धूमाहिंति य दिस' त्ति धूमायिष्यन्ते च धूममुद्वमिष्यन्ति च पुनर्द्दिशः, ताः किंभूताः १ - 'समंतारउ' त्ति समन्तात् रजः खला-रजोयुक्ताः अत एव 'रेणु०' धूल्या मलिनाः, अन्धकारवृन्देन निरस्तदृष्टिप्रसराः 'सम०' कालरूक्षतयेत्यर्थः, 'अहियं'ति अधिकं अहितं वा - अपथ्यं चन्द्राः शीतं मोक्ष्यन्ति 'अदुत्त रं'ति अथापरं च 'अरस'त्ति अमनोज्ञरसा मेघाः 'विरस'त्ति नीरसमेघाः, 'खार'ति सर्जादिक्षारसहग्मेघाः 'खत्त'त्ति करीपसंहरमेघाः, 'अग्गि'त्ति अग्निवद्दाहकजला:, 'विज्जु'त्ति विद्युन्निपातवन्तः 'विस०' विषसदृशाः, 'असणि'त्ति करकनिपातवन्तः, अथवा गिरिविदारणत्वाद्वज्रमेघाः, 'अपियणिजे 'त्ति अपातव्यजला इत्यर्थः, कचित् 'अजावणिज्जो' त्ति अया
७ शतके ६ उद्देशः