________________
श्रीभग लघुवृत्ती
७ शतके २ उद्देशः
एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'नवरं' इत्यादि, 'पंचिदिया तिरिक्खजोणिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्यादय उक्ताः एवं पञ्चेन्द्रियतिर्यश्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनः स्युरित्येवमवसेयं, देशविरतानां लेशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति । मूलगुणप्रत्याख्यानिप्रभृत| यश्च संयतादयः स्युरिति संयतादिसूत्रं 'तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, एवं-अनेनैवामिलापेन यथैव प्रज्ञापनायां तथैव सूत्रमिदमध्येयं, तच्चैवम्-नेरइया णं भंते ! किं संजया १ असंजया २ संजयासंजया ३१, गोनो संजया असंजया नो संजयासंजया' इत्यादि, 'अप्पे'त्यादि, अल्पबहुत्वं संयतानां तथैव यथा प्रज्ञापनोक्तं, तिपिणवि'त्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ख्येयगुणाः, असंयता अनन्तगुणाः, पश्चेन्द्रियतिर्यश्वस्तु सर्वस्तोकाः संयतासंयताः, असंयता असङ्ख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संयतासंयताः सङ्ख्येयगुणाः, असंयता असङ्ख्येयगुणा इति । संयतादयस्तु प्रत्याख्यानादिमत्त्वे सति स्युरिति प्रत्याख्यानादिसूत्रं, ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यानादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत् , किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिताः, इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥जीवाधिकारात्तच्छाश्वतत्त्वसूत्राणि-'दवट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः, भावठ्ठयाए'त्ति नारकादिपर्यायत्वेनेति ॥ सप्तमशते द्वितीयोद्देशकविवरणम् ॥ .. __'पाउसे'त्ति (सू. २७४) प्रावृडादौ बहुत्वाजलस्नेहस्य महाहारतोक्ता, प्रावृट् च श्रावणादि वर्षारात्रोऽश्वयुजादिः 'सरदेत्ति शरद् मार्गशीर्षादिः, तत्र चाल्पाहाराः स्युरिति, ग्रीष्मे सर्वाल्पाहारतोक्तेः, अत एव शेषे स्वल्पाहारता क्रमेण ज्ञेया, 'हरियगरे