________________
श्रीभग
-
७ शतके १ उद्देश:
लघुवृत्तौ
रेइ ३ वेएइ ४ निजरेइ ५' उदीरणावेदननिर्जरणानि प्राग् व्याख्यातानि, 'अणाउत्तं'ति (सू. २६६) अनायुक्तं-अनुपयोगं अयतनयेत्यर्थः, 'वोच्छिण्ण'त्ति अनुदिताः स्युरिति । 'सइंगाल'त्ति (सू. २६७) चारित्रंधनमगारमिव यः कुर्यात् , भोजनविषयरागाग्निः सोऽगार एवोच्यते, तेन सह यद्विद्यते पानकादि तत् साङ्गारं तस्य, सधूमस्स'त्ति चारित्रेघनधूमहेतुत्वात् , धूमोद्वेषः, तेन सह यद् भक्तादि तत् सधूम, 'मुच्छिय'त्ति मोहवान् दोषानभिज्ञानात् 'गिद्धे'त्ति तद्विशेषाकाङ्क्षावान् 'गढिए'त्ति | तद्गतस्नेहतन्तुसन्दर्भितः 'अज्झोवव'त्ति अध्युपपन्नः-तदेकाग्रतां गत आहारयति । 'महया अप्पत्तियं ति महदप्रीतिकं 'कोहकिलाम ति क्रोधात् क्लमः-शरीरायासः क्रोधक्लमस्तं क्रोधक्लमं 'गुणुप्पायणाहेति गुणोत्पादनहेतुकं 'अण्णदब्वेणं'ति रसविशेषोत्पादनाय, संयोज्येत्यर्थः, 'वीईति वीतो-गतः अङ्गारो यस्मात्तद्वीताङ्गारं । 'खित्ताइकंति (सू. २६८) क्षेत्र-सूर्यतापक्षेत्रं, दिनमित्यर्थः, 'अणुग्ग'त्ति अनुद्गते सूर्ये अशनादि लात्वा उदगते रखौ भुते, तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य | 'कालाइक्कंति कालं-दिनप्रहरत्रयलक्षणं,शेषं तथैव, 'मग्गाइकति अर्द्धयोजनातिक्रान्तस्य 'पमाणाइक्कं ति द्वात्रिंशत्कवललक्षणं प्रमाणं तदतिक्रान्तस्य, 'उवायणावित्त'त्ति उपादापप्य, प्रापप्येत्यर्थः, 'अद्धजोयण मेराए वीइकमावइत्त'त्ति अर्द्धयोजनमर्यादायाः परतो व्यतिक्रमय्य, नीत्वेत्यर्थः,'कुक्कुडिअंडग'त्ति कुक्कड्यण्डकस्य प्रमाणं येषां अथवा कुटीव-कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुक्कुटी तस्या अण्डकमिवाण्डकं उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा-द्वात्रिंशत्तमांशरूपा येषां ते कुकुट्यण्डकप्रमाणमात्राः अतस्तेषां, अयं अभिप्रायः-यावान् यस्य नरस्याहारस्तस्याहा| रस्य द्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवलः,इदमेव कवलमानमाश्रित्य प्रसिद्धकवल चतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता