SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीभग ७ शतके १ उद्देशः लघुवृत्ती भावनयैव चतुर्थे समये नियमादाहारक इते वाच्यं, शेषेषु पदेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादिस्वसः त्रसेब्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि-यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरके उत्पद्यते स टेकेन समयेन भरतस्य पूर्वभागात् पश्चिमभागं याति, द्वितीयेन तु ऐरवतपश्चिमभागं, |ततस्तृतीये नरक इति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति-'जीवा य एगिदिया य चउत्थे समये सेसा तइए समयेत्ति, 'कं समयं सव्वप्पाहारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वस्तोक आहारो यस्य स सर्वाल्पाहारः | स एव सर्वाल्पाहारक: स्यात् , 'चरमसमयभवत्थे त्ति चरमसमये भवस्य-जीवितस्य तिष्ठति यः स चरमभवस्थः, आयुश्चरमसमये इत्यर्थः, इदानी प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात् सर्वाल्पाहारतेति । 'सुपइट्ठग'त्ति (सू. २६०) सुप्रतिष्ठकं-शरावत्रिकं तच्चेहोपरिस्थापितकलशादिकं ग्राह्यं, तद्वत् संस्थितो लोकः, 'जाव'त्ति यावत्करणात् 'मज्झे संखित्ते उप्पि विसाले अहे पलियंकसंठाणसंठिए,मज्झे वरवइरविग्गहिए'त्ति दृश्य, व्याख्या प्राग्वत् , 'सामाइयकडस्स'त्ति(सू.२६१) कृतसामायिकस्य श्रमणोपाश्रये-साधुवसतावासीनस्य-तिष्ठतः साम्परायिकी क्रिया स्यात , विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता, निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उतरन्तु-'आया अहिंगरणी वट्टई' आत्मा जीवः, अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरगी, यतश्च 'आयाहिगरणवत्तियंति आत्मनोऽधिकरणानि आत्माधिकरणानि, तान्येव प्रत्ययः कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया इति ॥ 'नो खलु'त्ति(सू. २६२)न खल्वसौ| तस्य त्रसप्राणस्य अतिपाताय-वधाय आवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव निवृत्तोऽसाविति नासावतिचरति व्रतं । Mish animaARIAHINI CHI ADHinde mudio Intell us you must NMMINAR ॥१०
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy