________________
श्रीभग० लघुवृत्तौ
अथ सप्तमशतं व्याख्यायते तत्र देशोद्देशकादिसङ्खगाथामाह - 'आहार'त्ति (५३) आहारकानाहारकव्यक्तिरूपः १ विरतिःप्रत्याख्यानार्थः २, 'थावर' त्ति वनस्पतिवक्तव्यतार्थः ३, 'जीव'त्ति संसारिजीवप्रज्ञापनार्थः ४, 'पक्खि'त्ति खचरजीवयोनिवक्तव्यतार्थः ५, आयुष्कवक्तव्यतार्थः ६, 'अणगार'त्ति अनगारवक्तव्यतार्थः ७, 'छ उमत्थ' त्ति छद्मस्थमनुष्यवक्तव्यतार्थः ८, 'असंवुड' त्ति असंवृतानगारवक्तव्यतार्थः ९ 'अण्णउत्थि' त्ति कालोदायिप्रभृतिपरतीर्थिक वक्तव्यतार्थः १० ॥ ' के समयं ति (सू. २५९) परभवं गच्छन् | कस्मिन् समये अनाहारकः स्यादिति प्रश्नः, उत्तरन्तु-जीवो यदा ऋजुगत्योत्पादस्थानं गच्छेत् तदा परभवायुषः प्रथमसमये आहारकः स्यात्, यदा विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेणानाहारकः स्यात् उत्पत्तिस्थानानवाप्तौ तदाहरणीयपुद्गलानामभावाद्, अंत | आह-'पढमे समए सिय अणाहारए'त्ति यदा तु एकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिस्समयैरुत्पद्यते तदा प्रथमे द्वितीये त्वनाहारकः, यदा तु वक्रत्रयेण चतुर्भिसमयैरुत्पद्यते तदाऽऽद्य मयत्रये अनाहारकः, चतुर्थे नियमादाहारक इतिकृत्वा 'तइयसमए सिये 'त्याधुक्तं, वक्रत्रयमित्थं स्यात् - नाड्या बहिर्विदिक्ष्ववस्थितस्य यस्याधोलोकादूर्ध्वलो के उत्पादो नाड्या बहिरेव दिशि स्यात् सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणिं प्रतिपद्यते, द्वितीयेन नाडिं प्रविशति, तृतीयेनोर्ध्वलोकं गच्छेत्, चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यते, इह चाद्य सभयत्रये वक्रत्रयं ज्ञेयं, समश्रेण्यैव गमनात्, अन्ये त्वाहु: - वक्रचतुष्कमपि स्यात्, यदा हि विदिशो विदिश्येवोत्पद्यते, तत्र समयत्रयं प्राग्वत्, चतुर्थसमये तु नाड़ीतो निर्गत्य समश्रेणि प्रतिपद्यते, पञ्चमेनोत्पत्तिस्थानं प्राप्नोति, तत्राद्यसमयचतुष्के वक्रचतुष्कं स्यात् तत्रानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पत्तेरिति, 'एवं दंडओ'त्ति अमुना प्रकारेण चतुर्विंशतिदण्डको वाच्यः, तत्र जीवपदे एकेन्द्रियपदेषु च पूर्वोक्त
CDOCGJL___C_JOC_OCJACJILOG
७ शतके ११ उद्देशः