________________
श्रीभग०
लघुवृत्तौ
६ शतके १०उद्दे०
नेरइए नेरइए णं जीवेत्ति नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारि इत्यत आह-'जीवे पुण सिय नेरइए सिय अनेरइए' इति, जीवाधिकारादिदमाह-'जीवति भंते !जीवे'त्ति जीवति-प्राणान् धारयति यः स जीवः, उत यो जीवः स जीवति इति प्रश्नः, उत्तरं तु यो जीवति स तावनियमाजीवः, अजीवस्य आयुष्कर्माभावेन जीवनाभावात् , जीवस्तु स्थाजीवति स्यान्न जीवति, सिद्धस्य जीवनाभावाद् अशरीरत्वेनेति, 'जीवति भंते! नेरइए'त्ति नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् , जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिः, प्राणधारणस्य सर्वेषां सद्भावादिति । 'आहच सायं ति (सू. २५६) कदाचित् सातां-वेदनां, कथमिति चेत् , उच्यते-'उववाएण व सायं पोरइओ देवकम्मुणा वावि ।" 'आहच असायंतीति देवा आहननप्रियविप्रयोगादिवसातां वेदनां वेदयन्ति, 'वेमायाए'त्ति विविधया मात्रया, कदाचित् सातां कदाचिदसातामित्यर्थः। 'अत्तमायाए'त्ति (मू. २५७) यान् पुद्गलान् आत्मना आदाय-गृहीत्वा 'आयसरीर'त्ति स्ववपुरवगाढक्षेत्रावस्थितानिति, 'अणंतर'त्ति स्ववपुःक्षेत्रापेक्षयाऽनन्तरक्षेत्रावगाढानिति, 'परंपर'न्ति आत्मक्षेत्राद्यत्परं क्षेत्रं तत्रावगाढानिति । 'आयाणेहिंति (सू. २५८) आदानैः-इन्द्रियैः 'जीवाण य सुहदुक्खं'ति (*५२) दश| मोद्देशकसङ्ग्रगाथा गतार्था ॥ दशमोद्देशकविवरणम् ॥
इति श्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यनीदानशेखरगणिसमुद्धतायां भगवतीलघुवृत्ती षष्ठशतविवरणं सम्पूर्णम् ॥
---*******
THAN NIONAINipMIMHANIHDHINDHidein india INDIANIMAHIMACHAR
॥१०॥