SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ६ शतके ८ उद्देशः श्रीभगन्धपविधत्वे द्वादश दण्डकाः स्युरिति, अथ कर्मविशेषाधिकारात् तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीवा णं लघुवृत्तीभंते ! जातिनामनिहत्ता' जातिनाम निधत्तं निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः यावत्करणाद् एवं गत्यादि-1 नाम० पट् प्रकारा वाच्याः अयमेको दण्डको वैमानिकान्तो वाच्यः १, 'जातिणामनिहत्ताउया' जातिनामनिधत्तायुषः, एवहामन्यो दण्डकः २, जातिनामनिउत्ता० तत्र जातिनाम नियुक्तं-नितरां संयुक्तं-संबद्धं निकाचितं वेदने वा नियुक्तं यैस्ते जातिनामनि युक्ताः ३ 'जातिनामनिउत्ताउया' तत्र जातिनाम्ना सह नियुक्तं-निकाचितं वेदयितुमारब्धं वाऽऽयुयस्ते जातिनामनियुक्तायुषः ४ 'जातिगोयनिहत्ता' तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तजातिगोत्रं तनिधत्तं यैस्ते जातिगोत्रनिधत्ताः ५, एवमन्यान्यपि, 'जातिगोयनिहत्ताउया' जातिगोत्रेण समं निधत्तमायुयस्ते जातिगोत्रनिधत्तायुपः ६, एवमन्यान्यपि ५, 'जाइगोयनिउत्ता' जातिगोत्रं नियुक्तं यैस्ते जातिगोत्रनियुक्ताः, एवमन्यान्यपि ७, जातिगोयनिउत्ताउया जाति-| गोत्रेण समं नियुक्तमायुयस्ते जातिगोत्रनियुक्तायुषः ८, एवमन्यान्यपि ५ जाइणामगोयनिहत्ता जातिनाम गोत्रं च निधत्तं यैस्ते तथा ९, एवमन्यान्यपि ५, जातिनाम्ना गोत्रेण च सह निधत्तमायुस्ते तथा १० एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' जातिनाम गोत्रं च नियुक्तं यैस्ते ११ एवमन्यान्यपि ५,जातिणामगोयनिउत्ताउया जातिनाम्ना गोत्रेण च समं नियुक्तमायुर्यैस्ते १२ एवमन्यान्यपि ५ । अथ लवणसमुद्रस्वरूपं प्ररूपयन्नाह-'उस्सिओदएत्ति (सू. २५०) उच्छ्रितोदकः-ऊवं वृद्धिगतजलः, तदृद्धिश्च साधिकषोडशयोजनसहस्राणि 'पत्थडोदए'त्ति प्रसृतोदकः-समजलः,'खुभिय'त्ति वेलावशात् , वेला| |च महापातालकलशगतवायुक्षोभादिति, एत्तो'त्ति इतः सूत्रादारब्धं सद्यथा 'जीवाभिगमे' तथाऽध्येतव्यं, तच्चेदम्-'जहा णं भंते ! APNIPATIDAR DAI INDIAN Hindi wali mamming ADMININDIANDIHD ॥९८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy