SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ कामilliamomiIMIRIRI ६ शतके ८ उद्देशः प्रागुक्तकृष्णराजीसूत्रे, इह च ब्रह्मलोकोपरिस्थानानामधो योऽवनस्पतिनिषेधः स यान्यत्र वायुप्रतिष्ठितानि स्थानानि तेषामध आन|न्तर्येण वायोरेव भावात् आकाशप्रतिष्ठितानां त्वाकाशस्यैव भावादवगन्तव्यः, अग्नेरवस्थानादिति, "जाइनामनिहत्ताउए'त्ति (म्. २४९) तत्र जातिः-एकेन्द्रियजात्यादिः सैव पञ्चधा, नाम इति नामकर्मण उत्तरप्रकृतिः तया निधत्तं-निषिक्तं यदायुस्तजाति| नामनिधत्तायुः, निपेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १ 'गतिनाम'त्ति गतिः-नारकादि चतुर्दा, शेषं तथैव |२,'ठिइनाम'त्ति स्थितिरिति यत्स्थातव्यं क्वचिद्विवक्षितभवे जीवेनायुःकर्मणो वा सैव नामः-परिणामो धर्मः स्थितिनाम तेन | निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, ओगाहनामनिधत्त० ४ अवगाहते यस्यां जीवः सा अवगाहना-शरीरमौदारिकादि तस्य नाम-औदारिकादिशरीरनामकर्मत्यवगाहनानाम शेषं प्राग्वत् , 'पएसनाम'त्ति प्रदेशानां-आयुःकर्मद्रव्याणां नामः-परिणतिः, प्रदेशनामः शेषं प्राग्वत् ५ 'अणुभागनाम'त्ति अनुभागः आयुर्द्रव्याणामेव विपाकस्तल्लक्षणो नामः-परिणतिः, शेषं तथैव ६, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ, यस्मान्नारकाधायुरुदये सति जात्यादिनामकर्मणामुदयः स्यात्, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं इहैव-"नेरइए णं भंते ! नेरइएसु उववजइ, अनेरइए नेरइएसु उ?, गो०! नेरइए नेरइएसु उव०, नो अनेरइए नेरइएसु उ०' अयमर्थः-नारकायुःप्रथमसमयवेदन एव नारक उच्यते, तत्सहचारिणां च पश्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह च आयुर्वन्धस्य पविधत्वे उपन्यस्ते यदायुः षड्विधमुक्तं तदायुषो बन्धाव्यतिरेकाद् बद्धसैवायुर्व्यपदेशविषयत्वादिति, 'दंडओ त्ति 'जीवाणं भंते ! कइविहे आउबंधे पण्णत्ते' इत्यादि वैमानिकान्तश्चतुर्विंशतिदण्डको वाच्यः, अत आह-'जाव वेमाणियाणं'ति एवं जीवपदस्यैकत्वबहुत्वाभ्यां आयुर्व माग i n-andinकामा hillimm parwin maitSHITIJITHO lugair
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy