SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ त्वात् सूत्रगतेः, अतोऽसतोऽपीह पृथ्वीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन निषेधाभावः सुगम एव, 'नो' नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधो गमनं नास्तीत्यनुमीयते 'नो असुरो नो नागो' त्ति इहाप्यत | एव चतुर्थ्यादीनामधोऽसुरनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो व्रजेच्चमरवत्, न नागकुमारोऽशक्तत्वाद्, अत एवाह - 'देवो पकरेइ' इत्यादि, इह बादरपृथ्वीतेजसोर्निषेधः सुगम एव, अस्वस्थानात्, तथा अब्वायुवनस्पतीनामनिषेधः सुगम एव च तयोरुदधिप्रतिष्ठितत्वेनाच्वनस्पतिसम्भवात्, वायोश्च सर्वत्र भावादिति, एवं सणकुमार'त्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते स च तमस्काय सद्भावतोऽवसेयः, 'सव्वहिं'ति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः, 'पुच्छेयब्वो' त्ति बादराएकायः अग्निर्वनस्पतिश्च प्रष्टव्यः, 'अण्णं तं 'चेव'त्ति वचनानिषेधश्च यतोऽनेन विशेषोक्तादन्यत् सर्वं पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीषत्प्राग्भारान्तेषु पूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतोऽध्येयमिति, प्रागुक्तसङ्ग्रहगाथामाह - 'तमुकाय'त्ति (*५१ ) तमस्कायप्रकरणे प्रागुक्ते 'कप्पपणए' सौधर्मादिकल्पपञ्चके 'अगणि'त्ति अग्निपृथ्वीकायावध्येतव्यौ, 'अस्थि णं भंते ! बादरे पुढविकाए बादरे अगणिकाए ?, नो इणमट्ठे समट्ठे, नण्णत्थ विग्गहगइ समावण्णगेणं, इत्यनेनाभिलापेन, तथा 'अगणि'त्ति अनिकायोध्येतव्यः, 'पुढ वीत्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए' इत्याद्यभिलापेनेति, तथा 'आऊतेउ वणस्सइत्ति अप्तेजोवनस्पतयोऽध्येतव्याः, 'अस्थि णं भंते ! बादरे आउकाए बादरे ते उकाए बादरे वणस्सकाए ? नो इणट्ठे समट्ठे' इत्यादिनाऽभिलापेन, केष्वित्याह- ' कप्पुवरिम' त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसु' ति ६ शतके ८ उद्देशः 118011
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy