________________
श्रीभग लघुवृत्ती
६ शतके | उद्देशः
तथैवोद्धारकालस्तत् सूक्ष्म क्षेत्रपल्योपमं, एवं सागरोपममपि विज्ञेयमिति, उत्तमपत्ताए'त्ति उत्तमान् उत्कृष्टानर्थान् आयुष्कादीन् | प्राप्ता, उत्तमकाष्ठां प्राप्ता वा-प्रकृष्टावस्थां गता, तस्यां 'आगारभावपडोआरि'त्ति आकारस्य-आकृतेः भावाः-पर्यायास्तेषां प्रत्यवतार:-अवतरणमाविर्भाव आकारभावप्रत्यवतारः, 'आलिंगपुक्खरे'त्ति मरुजमुखपुटं, 'एवं'ति उत्तरकुरुवक्तव्यता जीवाभिगमोक्ता च दृश्या, 'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं-सर एव वा करतले-कर एव, एवं भूमिसमतायाः भूभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैवं दृश्य-तत्थ २णं बहवे भारहया मणुस्सा मणुस्सीओ आसयंति ५"तत्थ 'त्ति तत्र तत्र भारतस्य खण्डे २ देशे २, देशे २-खण्डांशे २ 'तहिं तहिंति देशस्यांशे २ उद्दालकादयो वृक्षविशेषाः, यावत्करणात् 'कयमाला नट्टमाला' इत्यादि दृश्यं, 'कुस'त्ति कुशा-दर्भाः, विकुशाः-तृणविशेषास्तैर्विशुद्धानि-सहितानि वृक्षमूलानि येषां ते तथा, 'जाव'त्ति यावत्करणात् 'कन्दमंतो मूलमन्त' इति दृश्यं, अणुसज्जित्थति अनुसक्तवन्तोऽनुवृत्तवन्तः, 'छविहति पद्मगन्धयः १ मियगंधति मृगमदगंधयः २ 'अमम'त्ति ममकाररहिताः ३ 'तेयली'त्ति तेजश्च तलं च-रूपं येषां ते तेजस्तलिनः ४ 'सह'त्ति सहिष्णवः-समर्थाः ५ 'सणंचर'त्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्वारिणः॥ ॥षष्ठशते सप्तमः उद्देशकः॥
'बायरे अगणिकाए'त्ति ननु यथा बादरानेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते-एवं वादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् , पृथिव्यादिष्वेव स्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते, मनुष्यादिवत्, विचित्र