SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ 'मूलगबीय'त्ति मूलकबीजानि, शाकविशेषबीजानीत्यर्थः, 'ऊसासद्धा वियाहिय'त्ति (सू. २४७) उच्छ्वासाद्धा: - उच्छ्वासप्रमितकालविशेषाः, व्याहृता भगवद्भिः अत्रोत्तरं - 'असंखिज्ज' त्ति असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदया- वृन्दानि तेषां याः समितयो - मीलनानि तासां यस्समागमः संयोगः तेन यत्कालमानं स्यात् सैकावलिका प्रोच्यते, 'संखेज्जावलिय'ति किल षट्पञ्चाशदधिकशतद्वयेन आवलिकानां क्षुल्लकभवग्रहणं स्यात्, तानि सप्तदश सातिरेकाणि उच्छ्वासनिःश्वासकालः, एवं सङ्ख्याता आवलिका उच्छ्वासकालमानं, ' हट्ठस्स 'त्ति हृष्टस्य 'अणवगल्लस्स' (४६) अनवकल्पस्य — जरानभिभृतस्य 'निरुव किडस्स' व्याधिना प्राक् साम्प्रतं चाक्लिष्टस्य जन्तोः प्राणिन एकोच्छ्रासेन सह निःश्वास उच्छ्रासनिःश्वासो य एष प्राण इत्युच्यते, 'सत्त पाणु'त्ति (४७) प्राकृतत्वात् सप्त प्राणा-उच्छ्रासनिश्वासाः, तैस्सप्तभिरेकः स्तोकः, सप्तस्तोकैरेको लवो, लवसप्तसप्तत्या मुहूर्त्तः, 'तिन्नि सहस्सा (*४८) गाह त्ति अस्या भावार्थोऽयम् - सप्तभिः प्राणैः स्तोकः, तैस्सल्लभिर्लवः, ततो लवस्सप्तमिर्गुणितो जाता एकोनपञ्चाशदुच्छ्वासाः, एवं मुहूर्त्ते च सप्तसप्ततिः लवाः स्युः, सा एकोनपञ्चाशद्गणने जातं यथोक्तं मानमिति, 'एताव ताव गणियस्स विसए'ति एतावान् शीर्षप्रहेलिका मेयराशिप्रमाणः, तावदिति क्रमागतः गणितविषयो - गणित गोचरो, गणितप्रमेय इत्यर्थः, 'उवमिए'त्ति उपमया निर्वृत्तमौपमिकं उपमामन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः (*४९) छेत्तुं - द्विधाकर्तुं खड्गादिना भेत्तुं सूच्यादिना सच्छिद्रं कर्तुं 'सिद्ध' त्ति ज्ञानसिद्धाः केवलिनः, न तु सिद्धाः सिद्धिं गताः, तेषां वदनस्यासम्भवादिति, 'पमाणाणं' ति वक्ष्यमाणप्रमाणानामुच्छ्लक्ष्णलक्ष्णिकादीनामिति, 'अणंताणं' ति अनन्तानां व्यावहारिकपरमाणूनां समुदाया - द्वयादिरूपास्तेषां समितयो - मीलनानि तासां समागमः - परिणामवशादेकीभवनं तेन JOJOCOLCCICLOGGING WHOLE D ६ शतके ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy