SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ तस्य करणस्य निष्पत्तिराहारपर्याप्तिः करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिर्नाम येन करणेन औदारिकवैक्रियाहारकशरीराणां योग्यद्रव्याणि गृहीत्वौदारिकादिभावेन परिणामयति, तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्यद्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं प्रभुः स्यात् तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनाऽऽनप्राणयोग्यानि द्रव्याण्यवलम्ब्यानप्राणतया निस्रष्टुं समर्थः स्यात् तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिः, तथा देन करणेन सत्यादिभाषयाः प्रायोग्यद्रव्याण्यवलम्ब्य चतुर्विधभाषया परिणमय्य भाषानिसर्जनप्रभुः स्यात् तस्य करणस्य निष्पत्तिर्भा पापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यद्रव्याणि गृहीत्वा मनसः मननसमर्थः स्यात् तस्य करणस्य निष्पत्तिर्मनः पर्यारिति, 'आहारपज्जत्ती 'ति इह जीवपदे पृथिव्यादिषु च सप्रदेशाश्वेत्येक एव भङ्गः, अनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां बहूनां लाभात् शेषेषु च षड् भङ्गाः पूर्वोक्ता एव, आहारपर्याप्तिमतामल्पत्वात्, 'सरीरअपजत्तीए 'ति इह जीवेवे केन्द्रियेषु चैक एव भङ्गः, अन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात्, अप्रदेशानां च कदाचिदेकादीनां लाभात्, नारकदेवमनुष्येषु च षडेवेति, 'भासामण'त्ति भाषामनोऽपर्यात्या अपर्याप्तकादयस्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोरभावमात्रेण तदपर्याप्तका अभविष्यंस्तदैकेन्द्रिया अपि ते भविष्यन्, ततश्च 'जीवाइओ तियभंगो' त्ति तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, 'नेरइयदेव' त्ति नैरयिकादिषु मनोऽपर्याप्तकानामल्पतरत्वेन सप्रदेशाऽप्रदेशानामेकादीनां लाभात् एवं षड् भङ्गाः, एषु च पर्याप्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति, पूर्वोक्तद्वाराणां सङ्ग्रहगाथा - 'सपदे साहारग' त्ति (*४१) कालतो 10GSÓC DOOSE SØE DOC DOCDOCLOCOCC ६ शतके ४ उद्देशः ॥९२॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy