SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ काः श्रीभग० लाभेऽन्यद् भङ्गद्वयमिति, नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्गक, सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गः, एषु योगत्रयदण्डकेषु मा शतक लघुवृत्ती जीवादिपदानि यथासम्भवमध्येयानि, सिद्धपदं च न वाच्यमिति, अजोगी जहा अलेस'त्ति दण्डकद्वयेऽपि अलेश्यसमवक्तव्यत्वात् तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवपदसिद्धपदयोर्भङ्गत्रयं, मनुष्येषु च षड्भङ्गीति, 'सागारोवउत्त'त्ति साकारोपयुतेषु अनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशा अप्रदेशाश्च एवमेक एव भङ्गः, तत्र चान्य|तरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रदेशत्वे भावनीये, सिद्धानामेकसमयोपयोगत्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्वं सकृत्प्राप्या चाप्रदेशत्वमवसेयं, एवं चासकृदवाप्तसाकारोपयोगान् बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः, तथा तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेव सकृदवाप्तसाकारोपयोगांश्च बहूनाश्रित्य तृतीयः, अना कारोपयोगे त्वसकृजातानाकारोपयोगानाश्रित्य प्रथमः, तानेव सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीयः, 'सवेयगा जहा सकसायी' इति सवेदानामपि जीवादिपदेषु भङ्गत्रयभावात् , इह च वेदप्रतिपन्नान् बहून् उपशमश्रेणिभ्रंशे च वेदप्रतिपद्यमानकानेकादीनाश्रित्य भङ्गत्रयं भावनीयं, इस्थि वेदाद्वावेदान्तरसङ्क्रान्तौ प्रथमसमयेऽप्रदेशत्वमितरेषु |च सप्रदेशत्वमवगम्य भङ्गत्रयं प्राग्वत् योज्यं, नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेषु चैको भङ्गः सप्रदेशाश्च अप्रदेशाश्त्येवंरूपः, प्रागुसक्तयुक्तेरेवेति, स्त्रीदण्डकपुरुषदण्डकेषु देवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति, 'अवेयगा जहा अकसाइ'त्ति जीवमनुष्यसिद्धपदेषु भङ्गत्रयमकपायिवद्वाच्यमित्यर्थः, 'ससरीरी ॥९ ॥ जहा ओहिय'त्ति औधिकदण्डकवत ; सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्या, अनादित्वात् सशरीरत्वस्य, नारकादिषु तु anyar i AMRIDHINDISANILIBHITISAM RAT Ummanitlimanalismummelinamainamailone mamalinmtamildinrmmumonilyon TIMI TAIMAHINITAptitumaan
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy