SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ (JOFFÓCJC तथा मिथ्याज्ञानमात्रान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानात् श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात् सप्रदेशा अप्रदेशश्च तथा सप्रदेशा अप्रदेशाश्चेति द्वितीयः इत्येवं त्रयमपि, 'वियलिंदिएहिं छभंग'त्ति द्वित्रिचतुरिन्द्रियेषु सास्वाद - नसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात् त एव षड् भङ्गाः, इह यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः असम्भवादिति, 'ओहिणाणे मण'त्ति एवमवध्यादिषु भङ्गत्रयभावना, केवलमवधिदण्डक्योरे केन्द्रिय विकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोश्च जीवा मनुष्याश्च वाच्याः, केवलज्ञानदण्डक योजव मनुष्य सिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विन्नेयं जस्स जं अस्थि'त्ति, 'ओहिए अण्णाणे' त्ति सामान्येऽज्ञाने मत्यज्ञानादिमिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी स्यात्, एते हि सदावस्थितत्वात् सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन सप्रदेशा अप्रदेशः सप्रदेशा अप्रदेशाश्चेति भङ्गद्वयमित्येवं भङ्गत्रयमपि, पृथिव्यादिषु तु सप्रदेशा अप्रदेशाचेत्येक एव, अत आह— 'एगिंदियवज्जो तियभंगो' त्ति इह भङ्गत्रये सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं, तद्भावना च मत्यज्ञानादिवत्, केवल मिहैकेन्द्रिय विकलेन्द्रियाः सिद्धाश्च न वाच्याः, 'सजोई जहा ओहिए' त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यः यथौधिको जीवादिः स चैवम्-सयोगी जीवो नियमात्सप्रदेशो, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति इह सिद्धपदं नाध्येयं, 'मणजोइ'त्ति मनोयोगिनो योगत्रयवन्तः, संज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु जीवादिकस्त्रिविधो भङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेन अप्रदेशत्व ६ शतके ४ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy