SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शतके ४ उद्देशः श्रीभगमत्यादौ सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये, अत एवोक्तं-'जीवसिद्धेहिं तियभंगो सकसाईहिंति सकपायाणां लघुवृत्तौ सदावस्थितत्वात् ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते, ततः सप्रदेशा अप्रदेशः, सप्रदेशा अप्रदेशाश्चेति अपरं भङ्गकद्वयं, नारकादिषु तु प्रतीतमेव भङ्गत्रयम् , 'एगिदिएसु अभंगति भङ्गानामभावोऽभङ्गकं, सप्रदेशा अप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह सिद्धपदं नाध्येयमकपायित्वात् , 'कोहकसाईहिंति क्रोधकपायिद्वितीयदण्डके जीवपदे पृथिव्यादिपदेषु च सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु त्रयः, ननु सकषायिजीवपदवत् कथमिह भङ्गत्रयं न लभ्यते ?, उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात् , नत्वेकादयो, यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वप्रतिपतार इति । 'देवेहिंति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवात् , 'माणकसाइ'त्ति मानकषायिद्वितीयदण्डकेऽप्येवं भङ्गत्रयं, 'नेरइयदेवेहिंति नारकाणां देवानां च मध्येऽल्पा एव मान|मायोदयवन्तः स्युरिति प्राग्वत् षड् भङ्गाः स्युरिति, 'लोभकसाईहिंति एतस्य क्रोधसूत्रबद्भावना, 'णेरइएहिं ति नारकाणां लोभोदयवदामल्पत्वात्प्रागुक्ताः षड् भङ्गाः स्युरिति, आह च-"कोहे माणे माया बोद्धव्या सुरगणेहिं छन्भंगा । माणे माया लोभे नेरइएहिपि छन्भंगा ॥१॥" देवा लोभप्रचुराः नारकाः क्रोधप्रचुरा इति, 'अकसायिजीव'त्ति अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गत्रयं, अन्येषामसम्भवादिति । 'ओहियनाणेत्ति औधिकज्ञानं मत्यादिभिरविशेषितं, तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु पूर्वोक्ता एव त्रयो भङ्गाः,तत्रौघज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात् सप्रदेशा इत्येकः, DOHINDI mahrimandarmanademinamaiden womenommu m amgitamangmargion unidhimanusaamijim malainan niruptum amlaing Dim
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy