SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ६ शतके ४ उद्देशः दानि वाच्यानि, अन्येष्वनयोरभावादिति, 'अलेसेत्ति अलेश्यदण्डकयोजीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात् , तत्र जीवसिद्धयोर्भङ्गत्रयं, मनुष्येषु षट् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन | सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भवात् , इदमेवाह ।। 'सम्मदिट्ठीहिंति सम्यग्दृष्टिदण्डकयोः सम्यक्त्वप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु सप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, विकलेन्द्रियेषु तु पट् , यतस्तेषु सास्वादनस म्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्ते, अतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भवः,इहैकेन्द्रियपदानि न वाच्यानि, । तेषु सम्यक्त्वाभावात् , 'मिच्छद्दिट्ठीहिंति मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, मिथ्यात्वं प्रतिपन्नाः सम्यवत्वभ्रंशेन तत्प्रतिपद्यमानाश्चैकादयः स्युरितिकृत्वा एकेन्द्रियपदेषु सप्रदेशा अप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां बहूनां भावात् , इह सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, 'सम्मभिच्छद्दिट्ठीहिंति सम्यग्भिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि स्युरित्यंतस्तेषु पर भङ्गाः स्यु।, इहैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवात् , संजएहिंति संयतेषु-संयतशब्द विशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावाद् , इह जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावात् , 'असंजएहिंति असंयतद्वितीयदण्डकेऽसंयतत्वं प्रतिपन्नानां बहूनां संयतत्वादि प्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां सम्भवाद् भङ्गत्रयं, एकेन्द्रियाणां तु प्रागुक्तयुक्त्या सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गः, । इह सिद्धपदं न वाच्यं,असम्भवादिति, संजयासंजए'त्ति इह देशविरतिप्रतिपन्नांनां संयमादसंयमाद्वा निवृत्त्य तां प्रतिपद्यमानानां | चैकादीनां भावाद् भङ्गत्रयम् , इह जीवपञ्चेन्द्रियतियङ्मनुष्यपदान्येवाध्येयानि, अन्यत्र संयतासंयतत्वाभावादिति, 'नोसंजए'
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy