________________
image
श्रीभग०
लघुवृत्तौ |
६ शतके ४ उद्देशः
प्राथम्ये तु सप्रदेशा अप्रदेशाश्चेति स्यात , तदेवं भङ्गत्रयमिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न| वाच्यानि, तेषु संज्ञिविशेषणस्थासम्भवादिति, 'असण्णीहिंति असंज्ञिषु असंज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदेषु हि सप्रदेशा अप्रदेशाश्वेत्येक एव, सदा बहूनामुत्पादात् तेषां अप्रदेशबहुत्वस्यापि सम्भवात् , नैरयिकादीनां व्यन्तरान्तानां संज्ञिनामप्यसंज्ञिभ्य उत्पादाद्भूतभावतया अवसेयं, तथा नैरयिकादिष्वपि असंज्ञित्वस्य कादाचित्कत्वेनैकत्वबहुत्वसम्भवात् षड् भङ्गाः स्युः, ते च दर्शिता एव, एतदेवाह-'नेरइयदेवमणुएहिं'इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्याः, तेषामसंज्ञित्वस्थासम्भवात् , तथा 'नोसपिणणो त्ति नोसंज्ञिनोनोअसंज्ञिनश्च नोसंज्ञिनो असंज्ञिविशेषणदण्डकयोद्वितीयदण्डके जीवमनुजसिद्धपदेषूक्तरूपं भङ्गत्रयं स्यात् , | तेषु बहूनामवस्थितानां लाभात् ,उत्पद्यमानानां चैकादीनां सम्भवादिति,एतयोर्दण्डकयो वमनुजसिद्धपदान्येव स्युः,नारकादिपदनां नोसंज्ञिनोअसंज्ञि इति विशेषणाघटनात् । 'सलेसे'त्ति सलेश्यदण्डकद्वये औधिकदण्डकवजीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् , केवलं सिद्धपदं नाधीयते, सिद्धानामलेश्यत्वात् , "किण्हनील'त्ति कृष्णनीलकापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेन आहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेतास्सन्ति स एव वाच्यः, एताश्च ज्योतिष्कवैमानिकानां न स्युः, सिद्धानां तु सर्वा न स्युः, 'तेउलेसाए'त्ति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः, पुढवि'त्ति पृथिव्यम्बुवनस्पतिषु षड् भङ्गाः, यत्तेषु तेजोलेश्याया एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्ते, इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भवः, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावात् , 'पम्हलेसाए'त्ति पद्मशुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गाः, इह पश्चेन्द्रियतिर्यङ्मनुष्यवैमानिकप
மா மாமா மாமா பயாபுரம் பியா பாபாமா பரவாய பாரதியாராமாயப்பு Unan
॥८९॥