SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ i श्रीभग शतके लघुवृत्ती ४ उद्देश: magmaigimailgiummiyamaanyarnangi मनाहारकत्वात् , अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तच्चानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात् , स चानाहारकत्वप्रथमसमयेऽप्रदेशः, द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याधुच्यते, पृथक्त्वदण्डके विशेषमाह'अणाहारगा गं'ति जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जाः, तान् वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदे च सपएसा अपएसा इत्येवमेक एव भङ्गः, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात् , नारकादीनां द्वीन्द्रियादीनां चाल्पतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात् , केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति, 'सिद्धेहिं तियभंगोत्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात् , 'भवसिद्धिय अभवसिद्धिय जहा ओहिय'त्ति, अयमर्थः औधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र अभव्यो भव्यो वा जीवो नियमात् सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियास्तु सप्रदेशा अप्रदेशाश्चेत्येकभङ्गा एवेति, सिद्धपदमिह न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्ते| रिति, 'नोभवसिद्धियनोअभवसिद्धियत्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयम् , तत्रायमभिलापः-नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे सपएसे अपएसे ? इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां तु नोभव्य विशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गत्रयमेव वाच्यं, अत आह-'जीवसिद्धेहिं तियभंगो'त्ति संज्ञिषु यौ दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं स्याद् अत आह-'सन्नीहिंति तत्र संज्ञिनो जीवाः कालतः सप्रदेशाः स्युश्चिरोत्पन्नानपेक्ष्य, उत्पादविरहानन्तरं चैकस्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात् , बहूनामुत्पत्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy