________________
श्रीभग० लघुवृत्तौ
नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेन अप्रदेशत्वाच्छेषाणां च द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वादुच्यते - सपएसाय अपएसे य'त्ति, एवं यदा बहव उत्पद्यमानाः स्युस्तदोच्यते - सपएसा अपएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह - " एगो व दो व तिन्निव संखमसंखा व एगसमएणं । उववर्जतेवइया उच्चतावि एमेव ॥ १॥" 'पुढविकाइया णं'ति एकेन्द्रियाणां पूर्वोत्पन्नानां उत्पद्यमानानां च बहूनां सम्भवात् 'सपएसा अपएसावित्ति इत्युच्यते । 'सेसा जहा नेरइय'त्ति यथा नारका अभिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसम्भवादेकाद्युत्पत्तेश्चेति, एवमाहारकानाहारकशब्दविशेषितावेतावेवैकत्वपृथक्त्वदण्डको चिन्त्यौ, चिन्तनक्रमश्चायं - आहारए णं भंते ! जीवे कालाएसेणं किं सपए से अपए से 2, गो ! सिय सप० सिय अपएसे' इत्यादि स्वधिया वाच्यं तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु सप्रदेश उच्यते अतः 'सिय सपएसे सिय अपएसे त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, | अनादिभावेषु तु नियमा सपएसेति वाच्यः, पृथक्त्वदण्डके त्वेवमभिलापो दृश्य - ' आहारया णं भंते ! जीवा कालाए सेणं किं सपएसा अपएसा ?, गो ! सपएसावि अपएसावित्ति, तत्र बहूनामाहारकत्वेनावस्थितानां भावान् सप्रदेशत्वं, तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यते इति सप्रदेशा अप्रदेशा इत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तथा 'आहारया णं भंते ! नेरइया किं सपएसा अपएसा ?, गो० ! सब्वेऽवि ताव होज सपएसा अहवा सपएसा य अपएसे य, अहवा सपएसाय अपएसाय' एतदेवाह - ' आहार गाणं जीवे गिंदियवज्जो तियभंगो' त्ति जीवपद मे केन्द्रियपदपञ्चकं च वर्जयिव्वा त्रिकरूपो भङ्गत्रिकभङ्गो, भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं, तेषा
६ शतके ४ उद्देशः
||८||