SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ ६ शतके उद्देशः भ्योऽनन्तगुणानामिह गणनादिति, 'एएसि सव्वेसिं'ति एतेषां पूर्वोक्तानां संयतादीनां चतुर्दशद्वाराणां तद्गतभेदापेक्षया अल्पबहुत्वमुच्चारयितव्यं, तद्यथा-एएसि णं भंते ! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाणं कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सव्वत्थोवा संजया संजयासंजया असंखेजगुणा नोसंजयानोअसंजयानोसंजयासंजया अणंतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं, यावच्चरमाद्यल्पबहुत्वं, एतदेवाह 'सव्वत्थोवा जीवा अचरिमे' त्यादि, अत्राचरिमा अभव्याः, चरमाश्च ये भव्याश्चरमभवं प्राप्स्यंति, सेत्स्यन्तीत्यर्थः, ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तस्सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयोद्देशकविवरणम् ॥ अनन्तरोद्देशके जीवा निरूपिताः, तानेव भङ्गान्तरेण चतुर्थोद्देशकेऽपि निरूपयन्नाह-'जीवे ण'मित्यादि (सू.२३८) 'कालाएसे'ति कालप्रकारेण कालमाश्रित्येत्यर्थः, सपएसे'त्ति सविभागः 'नियमा सपएस'त्ति अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो धेकसमयस्थितिकः सोऽप्रदेशः द्वयादिसमयस्थितिकस्तु सप्रदेशः, इह चानया गाथया भावना कार्या, जो | जस्स पढमसमए वह भावस्स सो य अपएसो। अन्नंमि वट्टमाणे कालाएसेण सपएसो (सू.२३८)॥१॥नारकस्तु यः प्रथमसम| योत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः स सप्रदेशः अत उक्तम्-'सिय सपएसे सिय अपएसे एष एकत्वेन जीवादिः सिद्धावसानः षड्विंशतिदण्डकः कालसप्रदेशत्वादिना चिन्तितो, अधायमेव तथैव पृथक्त्वेन चिन्त्यते 'सब्वेवि ताव होज सपएस'त्ति उपपातविरहकाले असङ्ख्यातानां पूर्वोत्पन्नानां भावात् सप्रदेशाः सर्वेऽपि भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदेकोऽन्यो।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy