SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ बन्धकत्वात्, 'अजोगी ण बंधइति अयोगिनः सर्वकर्मणामबन्धकत्वादिति । उपयोगद्वारे 'अडसुवि भयणाए 'त्ति साकारानाकारावुपयोगौ सयोगानामयोगानां च स्यातां तत्र सयोगा ज्ञानावरणादिप्रकृतीर्यथायोगं बध्नन्ति अयोगास्तु नेति भजना । आहारकद्वारे 'दोऽवि भयणाए 'त्ति आहारको वीतरागोऽपि स्यात्, न चासौ ज्ञानावरणं बनाति, सरागस्तु बध्नाति, इति भजनया आहारको बध्नाति तथा अनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्, तत्र केवली न बध्नाति, इतरस्तु बध्नाति, इत्याहारको भजनया उक्तः, 'वेयणिज्जं आहारए बंधइत्ति अयोगवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, 'अणाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति, अयोगी सिद्धश्च न बध्नाति इति भजना, 'आउयं आहारए भयणाएत्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धनात् भजनेति, 'अणाहारएण बंधइति विग्रहगंत्यापन्नानामप्यायुषोऽबन्धनादिति । सूक्ष्मद्वारे 'बायरे भयणा' वीतरागबादराणां ज्ञानावरणाबन्धकत्वात् सरागवादराणां च बन्धकत्वात् तद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह- 'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भयणाएं 'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनात् भजनेति । चरमद्वारे 'अट्ठऽविह भयगाए' ति इह यस्य चरमो भवो भविष्यति स चरमः, यस्य तु नासौ भविष्यत्यसौ अचरमः, सिद्धश्वाचरमः, तस्य चरमभवाभावात् तत्र चरमो यथायोगमष्टापि बनाति, अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टापि बभीयात्, सिद्धस्तु नेत्येवं भजनेति । अथाल्पबहुत्वद्वारं तत्र - 'इथिवेयगा संखेजगुण' त्ति (सू. २३७) यतो देवनरतिर्यक्पुरुषेभ्यः स्त्रियः क्रमशो द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाः स्युरिति, 'अवेयगा अनंतगुण'त्ति अनिवृत्तिवादरसम्पराया| दयः सिद्धाश्रावेदाः अतस्तेऽनन्तत्वात् स्त्रीवेदेभ्योऽनन्तगुणाः स्युरिति, नपुंसगवेयगा 'अनंतगुण'त्ति अनन्तकायिकानां सिद्धे ६ शतके १३ उद्देशः ॥८७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy