SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीभग ६ शतके लघुवृत्ती उद्देशः | ग्यवस्थायां श्रेणिप्रतिपाते वा अबन्धनात् सपर्यवसितत्वं, 'गइरागई पडुच्च' नारकादिगतिगमनमाश्रित्य सादिकः, आगमनमा|श्रित्य सपर्यवसितः, 'सिद्धगईत्ति 'साइया अपज्जवसिया' इहाक्षेपपरिहारावे-साई अपज्जवसिया सिद्धा न य नामतीयकालम्मि। आसि कयाइवि सुण्णा, सिद्धी सिद्धेहिं सिद्धते ॥११॥ सव्वं साइसरीरं, नय नामादिमयदेहसम्भावो । कालाणाइत्तणओ, जहा वराई| दियाईणं ॥२॥ सब्बो साई सिद्धो, न यादिमो विजई तहा तं च । सिद्धी सिद्धा य सया, निद्दिवा रोहपुच्छाए ॥३॥"त्ति, 'तंच'ति तच्च सिद्धानादित्वमिष्यते,यतः 'सिद्धी सिद्धायेति 'भवसिद्धिया लद्धिंति भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वा अनादिकाः सपर्यवसिता वेति,कर्मस्थितिद्वारे तिनि चाससहस्साई अबाहा,अबाहूणिय'त्ति(सू०२३५) चाध लोडने,बाधत इति चाधा-कर्मण उदयः, न बाधा अबाधा, कर्मणो बन्धस्योदयस्य चान्तरं, अबाधया उक्तलक्षणया ऊनिका अबाधोनिका कर्मस्थितिः-कावस्थानकालः उक्तलक्षणः कर्मनिषेकः स्यात् , तत्र कर्मनिषको नाम कर्मदलिकानुभवनार्थो रचनाविशेषः, तत्र च प्रथमसमये बहुकं निषिंचति-अनुभवति, द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेच यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं २ निषिञ्चति, तथा चोक्तम्-"मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दन्छ । सेसे विसेसहीणं जावुकोसंति सच्चासिं ॥१॥" इदमुक्तं स्यात्-बद्धमपि ज्ञानावरणकर्म त्रीणि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तन्यूनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यूनत्रिंशत्सागरोपमकोटाकोटीमान इति, एवमन्यकर्मखप्यबाधाकालो व्याख्येयः, नवरमायुषि त्रयस्त्रिंशत्सागरोपमाणि निषेकः पूर्वकोटीत्रिभागश्च अबाधाकाल इति, 'वेयणिज्जेणं जहण्णेणं दो समयत्ति केवलं काययोगप्रत्ययबन्धापेक्षया वेदनीयं द्विसमयस्थितिकं स्यात् , एकत्र बध्यते द्वितीये वेद्यते, यचोच्यते 'वेयणियस्स जहण्णा बारस नामगोयाण अट्ठ उ मुहुत्तत्ति, तत्तु ॥८५
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy