SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ ६ शतके १ उद्देशः ओत्ति सर्वतः-सर्वासु दिक्ष सर्वान् वा जीवप्रदेशानाश्रित्य वध्यन्ते-चीयन्ते बन्धनतः, उपचीयन्ते-निषेकरचनतः, अथवा वध्यन्ते बन्धनतः चीयन्ते निधत्ततः उपचीयन्ते निकाचनतः, सदा-सर्वदा समितं-सततं, 'तस्स आय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा-बाह्यात्मा, शरीरमित्यर्थः, 'अणिद्वत्ताए' इच्छाया अविषयतया 'अकंतत्ताए असुंदरतया 'अप्पियत्ताए' अप्रेमहेतुतया 'असुभत्ताए' अमङ्गलतया 'अमणुन्नत्ताएं न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया 'अमणामत्ताए' न मनसा अम्यते-गम्यते संस्मरणतोऽमनोऽमस्तद्भावस्तत्ता तया 'अणिच्छियत्ताए अनीप्सिततयाप्राप्तुमवाञ्छितत्वेन 'अहिझियत्ताए भिध्या-लोभः, सा सञ्जाता यत्र स भिध्यितो न भिभ्यितः अभिध्यितस्तद्भावस्तत्ता तया 'अहत्ताए' जघन्यतया,'नो उडुत्ताए' न मुख्यतया 'अहयस्स'त्ति अपरिभुक्तस्य 'धोयस्स' नीरधौतस्य तंतुवायस्स्य तत्रात् तुरिवेमादेरपनीतमात्रस्य 'बज्झंती' त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, "भिझंति त्ति प्राक्तनसम्बन्धविशेषत्यागात् छिजंति-विशेषतः, विद्धस्संति ततोऽधःपातात् , परिविद्धस्संति, विशेषतया पातात् , 'जल्लियस्स' जल्लितस्य-यानगलनधर्मोपेतमलयुक्तस्य 'पंकियस्स' पङ्कितस्य-आमलोपेतस्य 'मइलियस्स' मलिनस्य-कठिनमलयुक्तस्य 'परिकम्मिन्जमाणस्स' क्रियमाणशोधनार्थोपक्रमस्य ॥ वत्थस्सत्ति (सू० २३३) वस्त्रस्य द्वारे 'पओगसा वीससा' छांदसवात् प्रयोगेण-पुरुषव्यापारेण विस्रसा-स्वभावेन, 'जीवाणं कम्मोवचए पओगसा नो वीससा, प्रयोगेणैव, अन्यथा अयोगस्यापि बन्धप्रसङ्गः, सादिद्वारे 'इरियावहियबंधगस्स'त्ति (सू० २३४) ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्म तद्वन्धकस्य, उपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनश्चेति भावः, ईर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं, अयो
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy