SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीभग० ६ शतके १ उद्देशः लघुवृत्ती | विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भायनाय 'जे महाणिज्जरे' इति प्रत्यावर्तनमित्येकः प्रश्नः, तथा महावेदनस्य | | चाल्पवेदनस्य च मध्ये स श्रेयान् यः प्रशस्तनिर्जराक:-कल्याणानुबन्धनिर्जर इत्येष द्वितीयः प्रश्नः, हन्तेत्याद्युत्तरं, प्रथमप्रश्नोत्तरे महावीगे महोपसर्गकाले ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति, यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छट्ठसत्तमासु णं'ति, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं दुवामतराए-दुर्वाम्यतरकं दुस्त्याज्यतरकलङ्क, दुपरिकम्मतराए-कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियं, अनेन विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं 'गाढीकयाईति आत्मप्रदेशैः सह गाढबद्धानि, सणसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाई सूक्ष्मकर्मस्कन्धानां सरसतया मिथोगाढसम्बन्धकरणतो दुर्भेदीकृतानि मृत्पिण्डवत् , सिलिट्ठीकयाई श्लिष्टीकृतानि निधत्तानि-सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् , 'खिलीभूयाई खिलीभूतानि अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि, निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्यनेन दुर्विशोध्यानि स्युस्ततः 'संपगाढं'ति सम्प्रगाढां अतिदुःसहां 'णो महापज्जवसाणा भवन्ति' अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणमुक्तं फलमिति नाप्रस्तुतत्वमस्य शङ्कनीयमीति, तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं, न पुनर्मारकादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतः स्यादयोगी महानिर्जरो महावेदनस्तु भजनयेति, 'अहिगरणि'त्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुदृयंति, 'आउडेमाणे त्ति आकुदृयन् 'सद्देणं'ति अयोधनघातप्रभवेण धनिना पुरुषहुंकृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परम्पराघाएणं'ति परम्परा-निरन्तरता तत्प्राधान्ये घातः-ताडनं परम्पराघातस्तेन, उपर्युपरिघातेनेति, 'अहाबायरे'त्ति स्थूलप्रकारान् ‘सुधोयत MISIOSHIARINDIAHINIDARAMIRMITTHIamunahmarrir intheir iasmall and
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy