________________
श्रीभग० लघुवृत्तौ
लोको भूतः सद्भूतो वा भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्व अनश्वरोऽपि स्यात् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्वयोऽपि किल स्यात् अत आह- परिणतः - पर्यायान्तराण्यापन्नो, नतु निरन्वयनाशेन नष्टः, अथ कथमयमेवंविधो निश्चीयते इत्याह-'अजीवेहिं'ति अजीवैः - पुद्गलादिभिः सत्तां विद्भिरुत्पद्यमानैविंगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैर्लोक्यते - निश्चीयते प्रलोक्यते - प्रकर्षेण निश्चीयते भूतादिधर्म्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह - 'जे लोक्कए से लोए' त्ति यो लोक्यते प्रमाणेन स लोकः -लोकशब्दवाच्यः स्यादिति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति, 'पच्चभिजाणंति'त्ति प्रत्यभिजानते सर्वज्ञमिति, अनंतरं 'देवेलोपसु उववण्णा' इत्युक्तमतो देवलोकप्ररूपणसूत्रम्, 'कइ विहाण' (सू. २२६) मित्यादि । पञ्चमशते नवम उद्देशकः।। अथ चन्द्रं समुद्दिश्य दशमोद्देशक्रमाह, तस्य चेदं सूत्रम्, 'तेणं का लेण (सू. २२७) मित्यादि, एतच्चन्द्राभिलापेन पञ्चमशतप्रथमो|देशकवन्नेयमिति । पञ्चमशते दशमः ॥ समाप्तं पञ्चमशतमिति ॥
अथ षष्ठमारभ्यते – एतत्सङ्ग्रहणीगाथेयम्- 'वेयण' इत्यादि (* ३७) तत्र 'वेयण' त्ति महावेदनो महानिर्जर इति प्रतिपादनपरः प्रथमः, आहाराद्यर्थाभिधायको द्वितीयः, महाश्रवणस्य पुद्गला बध्यन्ते इति तृतीयः, 'सपएस' त्ति सप्रदेशो जीवोऽप्रदेशो वा इति चतुर्थः, 'तमुयए'त्ति तमस्कायार्थः पञ्चमः, 'भविए'त्ति भव्यो नारकत्वादिनोत्पादस्य योग्य इत्यर्थः षष्ठः, 'साली' त्ति शाल्यादिधान्यवक्तव्यतार्थस्सप्तमः, 'पुढवि'त्ति रत्न । भादिपृथिवीवक्तव्यतार्थोऽष्टमः, 'कम्म' त्ति कर्म्मबन्धाभिधायको नवमः, 'अण्णउत्थि'त्ति अन्यतीर्थिकवक्तव्यतार्थो दशमः । ' से नूणं ति (सू. २२८) महावेदनः - उपसर्गादिसमुद्भूतविशिष्टपीडः महानिर्जरो -
६ शतके १ उद्देशः
| ॥८३॥