SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ IN५ शतके कालोऽनन्तः परीतश्च स्थादित्येवं वा सङ्ख्ययेऽपि लोके रात्रिंदिवान्यनन्तानि परीत्तानि च कालत्रये युज्यन्त इति, एतदेव प्रश्नलपत्तोपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-'से नू'ति 'भे'त्ति भवतां सम्बन्धिना 'अज्जो'त्ति हे आर्याः 'पुरिसादाणीयेणं'ति पुरुषाणां मध्ये आदानीयः-आडेयः पुरुषादानीयः तेन 'सासएत्ति प्रतिक्षणं स्थायी, स्थिर इत्यर्थः, 'वुइए ति उक्तः, स्थिरश्च उत्पत्तिक्षणादप्यारभ्य स्थादित्यत आह-'अणाइए'त्ति अनादिकः, स च सान्तोऽपि स्याद् भव्यत्ववदित्याह-'अणवयग्गेत्ति अनवदग्रः-अनन्तः 'परित्ते'त्ति परिमितः प्रदेशतः, अनेन लोकस्थासङ्ख्येयत्वं पार्श्वजिनस्यापि सम्मतमिति दर्शितं, परिचुडे'त्ति अलोकेन परिवृतः, 'हेट्ठा विच्छिण्णे'त्ति सप्तरज्जुविस्तृतत्वादधः, 'मज्झे'त्ति मध्ये एकरज्जुविस्तारत्वात् , 'उत्पिति ब्रह्मलोकदेशस्य पश्चरज्जुविस्तारत्वात् , एतदेवोपमानतः प्राह–'अहे पलियंकसंठिए'त्ति उपरि. सङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवइर'त्ति वरवज्रवद्विग्रह:-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, 'उप्पि उडमुइंगागारसंठिए'त्ति ऊो, न तु तिरश्चीनो, यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसम्पुटाकार इत्यर्थः, 'अणंता जीवघ'त्ति अनन्ताः परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात् , सन्तत्यपेक्षया चानन्ता जीवसन्ततीनामपर्यवसानत्वात् , जीवाश्च ते घनाश्च अनन्तपर्यायसमूहरूपत्वादसङ्ख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पजितेत्ति उत्पद्योत्पद्य निलीयन्ते-विनश्यन्ति, तथा परित्ता' प्रत्येकं शरीराः, अनपेक्षितातीतानागतसन्तानतया वा सतिसाः जीवधनाः, अनेन च प्रश्नेन यदुक्तं 'अणता राइंदिया' इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात् कालविशेषा अपि अनन्ताः परीत्ताश्च व्यपदिश्यन्ते, अतो विरोधः परिहतः स्यात् , अथ लोकमेव स्वरूपत आह-'से नूणं भूए'त्ति ४जीवघना उत्पद्य निलीयन्ते स
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy