________________
श्रीभग
शतके
।उद्देशः
पचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गेषु ते न सम्भवन्ति,प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य वा भावात् , लघुवृत्तौ । 'अवट्ठिएहिंति अत्र प्राकृतत्वात् तृतीयार्थे सप्तमी वाच्या, कथं ?, निरुपचयनिरपचयनिरपचयेषु 'वतीकालो भाणियो
विरहकालो वाच्यः॥ पञ्चमशतेऽष्टमः॥ __ 'जहा एयणुद्देसए'त्ति (सू० २२२) एजनोद्देशकोऽस्यैव पश्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता, टङ्का कूडा सेला सिहरी'त्यादिका योक्ता सेह भणितव्या, अत्रोत्तरम्-'पुढवीवि नगर मिति पृथिव्यादिसमुदायो राजगृह, न पृथिव्यादिसमुदायादृते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीवा इय अजीवाइय'त्ति जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति प्रोच्यते, 'दिवा सुभ'त्ति (मू० २२३) दिवा-दिवसे शुभाः पुद्गलाः स्युः, किमुक्तं भवति ?-शुभः पुद्गलपरिणामा, स चार्ककरसम्पर्कात् , रत्ति'ति रात्रौ, नेरइयाणं असुभपुग्गल'त्ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात् 'असुरकुमाराणं सुभा पोग्गल'त्ति तदाश्रयादीनां भास्वरत्वात् 'पुढविकाइय'त्ति पृथ्वीकायिकादयस्वीन्द्रियान्ता यथा नैरयिका उक्ताः तथा वाच्याः, एषां नास्त्युद्योतस्तमित्रं चास्ति, पुद्गलानामशुभत्वात् , इह चेयं भावना-एतत्क्षेत्रे रविकरसम्पर्के सत्यपि एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावात शुभपुद्गलकार्याकरणेनाशुभपुद्गला लभ्यन्ते, ततश्चैषामन्धकारमेवेति, 'चउरिंदियाणं सुभासुभ'त्ति एषां चक्षुःसद्भावेन | रविकरादिसद्भावेन दृश्यार्थावबोधहेतुत्वात् शुभाः पुद्गलाः, रविकरायभावे त्वर्थावबोधाजनकत्वादशुभाः, 'तत्थ गया णं'ति (सू० २२४) नरकस्थितैः, षष्ठयास्तृतीयार्थत्वादेव, 'पण्णायईत्ति एवं प्रज्ञायते, इदं विज्ञायते, 'समयाइवा' समया इति वा
Halemmanmadimamijimms.