SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीभग ५ लघुवृत्ती ८उद्देशः सङ्ख्येया वासाः, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितंत्वेजप सङ्ख्यातत्वमेवेत्यतः सङ्ख्यातमासाः इत्युक्तं, एवं गेवेजदेवाणंपि' इह यद्यपि ग्रैवेयकाधस्तनत्रये सङ्ख्यातानि शतानि वर्षाणां मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते | तथापि द्विगुणनेऽपि सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्यातकालो विरहः, स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसङ्ख्येयभागः, सोऽपि द्विगुणितः सङ्ख्येयभाग एव स्यात् , अत उक्तम्-'विजयवेजयन्तजयंतापराजियाणं असंखिजाई वाससहस्साई' इत्यादि। 'सिद्धा सोवचयत्ति अनेकसिद्धानामेकसमये द्वयादीनामष्टोत्तरशतान्तानां प्ररूपणागाथामाह सङ्ग्रहिण्यां यथा 'बत्तीसा अडयाल 'त्ति एतद्व्याख्या-यदैकसमयेनैकादय उत्कर्षतो द्वात्रिंशत्सिद्धयन्ति एवं द्वितीयसमयेऽपि द्वात्रिंशद् एवं नैरन्तर्येण अष्ट समयान् यावद् द्वात्रिंशत्सिद्ध्यन्ति ततोऽवश्यमन्तरं स्यात् , यदा ४८ एकसमयेन सिद्ध्यन्ति | तदा निरन्तरं सप्त समयान् , तदनन्तरमन्तरं,यदा एकोनपञ्चाशतमादौ कृत्वा एकसमयेन षष्टिः सिद्ध्यन्ति तदा निरन्तरं ६ समयान् , | तदुपर्यन्तरं समयादि स्यात् , एवमग्रेऽपि ज्ञेयं, यावदष्टोत्तरशतमेकसमयेन सिद्ध्यति, तदनन्तरमवश्यमन्तरं इत्युक्ताः सिद्धाःसोपचयाः। अथ जीवानेव भङ्गान्तरेणाह-सोपचयाः सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् ,सापचयाःप्राक्तनेभ्यः केषाश्चिदुद्वर्त्तनात् सक्षया इति,सोपचयसापचया उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात ,निरुपचयनिरपचया उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात, | ननूपचयो वृद्धिः, अपचयस्तु हानिः युगपत् द्वयमद्वयं चावस्थितत्वमेवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः, उच्यते, | पूर्वत्र परिमाणमभिप्रेतमिह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्ध्यादिविकल्पानां त्रयमपि स्यात् , तथाहि I | बहुतरोत्पादे वृद्धिः, बहुतरोद्वर्त्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेदः, 'एगिदिया तइयाए' सोपचयास्सा n८१॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy