SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ DOES CHHOTE MOHAN BHADOHN MANDAN MEMES द्विधापि स्यात्, तथा यो भावतः सप्रदेशः, स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशमूत्राणां भावार्थ इति । अथैषां सप्रदेशानां द्रव्याणामल्पबहुत्व विभागमाह - 'एएसि णं 'ति इत्यादि सूत्र सिद्धं यदाहुर्वृद्धा: - 'वोच्छं अप्पाबहुयं दव्वक्खेत्तद्भावओ वावि । अपएससप्पएसाण पोग्गलाणं समासेणं ॥ १॥ दव्वेणं परमाणू खे तेणे गप्पएसमोगाढो । कालेण एगसमया अपएसा पुग्गला हुंति ॥२॥ भावेण अप्पएसा एगगुणा जे हवंति वन्नाई । वर्णादिभिरिति तेच्चिय थोवा जं पुण बाहल्लं पायसो दव्वे ||३|| द्रव्ये प्रायो द्वयादिगुणाश्चानन्तगुणान्ताः कालकत्वादयः स्युः, एकगुणकालकादयस्त्वल्पा इति विस्तरतो बृहद्वृत्तौ प्रोक्तमस्ति तदत्र ग्रन्थगौरवभयान्न लिखितं, जीवा वर्द्धन्ते हीयन्ते अवस्थिताः १, ( सू० २२१ ) गौतम ! अवस्थिताः, 'नेरइया णं' ति 'अवट्ठिया जहणणेण मेगसमयं उक्कोसेणं चउवीसई मुहुत्त 'त्ति, कथं ?, सप्तस्वपि पृथिवीषु द्वादशं मुहूर्त्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते च, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु पुनर्द्वादशसु मुहुर्त्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिं यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं, वृद्धिहान्योरभाव इत्यर्थः एवं रत्नप्रभादिषु य उत्पादोद्वर्त्तना विरहकालश्चतुर्विंशतिमुहूर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तुल्यस्य समसंख्यानामुत्पादोद्वर्त्तनाकालस्य मीलनात् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः सूत्रोक्तः स्यात्, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्यः, 'एगिंदिया वज्रंति' तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'हायति'त्ति बहुतराणामुद्वर्त्तनात् अल्पतराणां चोत्पादात्, 'अवट्ठिय'त्ति तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं तिहिवि 'त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्ध्यादिषु आवलिकासङ्ख्येयो भागः, ततः परं यथायोगं वृद्ध्यादेरभावात्, 'दो अंतोमुहुत्त 'त्ति एकमन्तर्मुहूर्त्तं विरहकालः द्वितीयं तु समानानामुत्पादोद्वर्त्तनकालः सङ्ख्येया मासाः JOCVICIOFDC= CHODCHOCHOLIQE ५ शतके ८ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy