________________
श्रीभग लघुवृत्तौ
'अणंत'त्ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानं, अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह-'जे दबओ५ शतके अप्पएसेत्ति द्रव्यतोऽप्रदेशः परमाणुः, स च क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते, प्रदेशद्वयाद्यवगाहे
तु उद्देशः | तस्य अप्रदेशत्वमेव न स्यात् , कालतस्तु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशः, अनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्ययेकगुणकालकादिस्तदाऽप्रदेशः, अनेकगुणकालकादिस्तु सप्रदेश इति, निरूपितो द्रव्यतोऽप्रदेशः, अथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह'जे खेत्तओ अपएस'त्ति यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात् सप्रदेशः, द्वथाणुकादेरपि एकप्रदेशावगाहित्वात् , स्यादप्रदेशः पर| माणोरप्येकप्रदेशावगाहित्वात् , कालतो 'भयणाए'त्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनया अप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढ एकसमयस्थितिकत्वादप्रदेशोऽपि स्याद् अनेकसमयस्थितिकत्वात् सप्रदेशोऽपि स्यादिति, 'भावओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकत्वादिनाऽप्रदेशोऽपि स्यादनेकगुणकालकत्वादिना सप्रदेशोऽपि स्यादिति । अथ कालापदेशं भावाप्रदेशं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्तः, एवं कालतो भावतश्चासौ वाच्यः, तथाहि-'जे कालओ अप्पएसे से दव्वओ सिय सपएसे सिय अपएसे' एवं क्षेत्रतो भावतश्च, तथा 'जे भावओ अपएसे से दव्यओ सिय सपएसे सिय अपएसें,' एवं क्षेत्रतः कालतश्चेति, उक्तोऽप्रदेशः । अथ सप्रदेशमाह-'जे दवओ सप्पएसे'त्ति, अयमोंयो द्रव्यतो द्वयाद्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो द्वयादिप्रदेशो द्वयादिप्रदेशावगाहित्वात् , स्यादप्रदेश एव एकप्रदेशावगाहित्वात् ,एवं कालतो भावतश्चेति,तथा यः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव,द्रव्यतोऽप
||८०॥ देशस्य द्वयादिप्रदेशावगाहासम्भात् , कालतो भावतश्चासौ द्वेधापि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च