SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीभगः लघुवृत्ती ५ शतके ७ उद्देशः स्वस्थानुमानानुत्थापकतयेति, अतोऽसावहेतुरिति, एवं पश्यतीत्यादि ३, तथा 'अहेउं केवलिमरणं'ति अहेतुः-निर्हेतुकमनुपक्रमत्वात् केवलिमरणं म्रियते-करोति इति, अहेतुरसौ पञ्चम इति । प्रकारान्तरेण 'पञ्च'त्यादि तथैव, नवरं अहेतुना-हेत्वभावेन केवलित्वाजानाति योऽसावहेतुरित्येवं पश्यतीत्यादयोऽपि ३ 'अहेउणा केवलिमरणति अहेतुना उपक्रमाभावे केवलिमरणं | | म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति, अहेतूनेव प्रकारान्तरेण आह-'पञ्च अहेऊ'इत्यादि, अहेतवः-अहेतुव्यवहारि| णस्ते च पञ्च, ज्ञानादिभेदात , तद्यथा-'अहेउं न याणइत्ति अहेतुं न हेतुभावेन, स्वस्यानुमानानुत्थापकतयेत्यर्थः, न जानाति न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नो देशनिषेधार्थत्वात् , ज्ञातुश्वावध्यादिज्ञानित्वात् कथञ्चित् ज्ञानमुक्तं, समग्रज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा 'अहेउं छउमत्थमरणं'ति अध्यवसानादेरुपक्रमकारणस्याभावात् , छद्मस्थमरणं अकेवलित्वात् , नत्वज्ञानमरणं, अवध्यादिज्ञानित्वेन ज्ञानित्वात्तस्येति, अहेतूनेवान्यथाऽऽह-पंचे'त्यादि,तथैव, नवरं अहे. तुना-हेत्वभावेन न जानाति-कथञ्चिदवगच्छति, गमनिकामात्रमेवेदमष्टानामपि सूत्राणां, एषां भावार्थ तु बहुश्रुता विदन्ति । ॥ इति पञ्चमशते सप्तमः॥ _ 'दव्वादेसेणं'ति (सू. २२०) द्रव्यप्रकारेण, द्रव्यात् इत्यर्थः, परमाणुत्वाद्याश्रित्येतियावत् , 'खित्तादेसेणं'ति एकप्रदेशावगाढत्वादिनेति, 'कालादेसेणं'ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं ति एकगुणकालकत्वादिना, 'सव्वपोग्गला सपएस'त्ति सर्वे पुद्गलाः सप्रदेशा अप्रदेशा अपि इत्यादि, इह च ये सार्दादिपुद्गलविचारे प्रक्रान्ते सप्रदेशा अग्रदेशा एव ते प्रस्तावितास्तत्तेषां प्ररूपणे सार्द्धत्वादि प्ररूपितमेव स्यादितिकृत्वेत्यवसेयं, तथाहि-सप्रदेशाः सार्धाः समध्या वा अप्रदेशा अमध्यावा, मिन्यान्यपि ३, तथाथत्वात् , ज्ञातुश्वावध्यामानानुत्थापकतयेत्यर्थः पहा
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy