________________
श्रीभग० लघुवृत्तौ
मण्डकादिपचनिका, 'लोहकड्डु च्छुय'त्ति अन्नपरिवेषणाद्यर्थो भाजनविशेषः, 'भवणा' भवनपतिनिवासाः ॥ 'पंच हेउ' त्ति (सू. २१९) इत्यादि, इह हेतुषु वर्त्तमानो ना-नरो हेतुरेव, तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्याह - 'हेउं जाणइ' त्ति हेतुं - साध्याविनाभूतं साध्यनिश्चयार्थं जानाति - विशेषतः सम्यगवगच्छति, सम्यग्दृष्टित्वाद्, अयं च पञ्चविधोऽपि सम्यग्दृष्टिर्मन्तव्यः, मिथ्यादृष्टेः सूत्रद्वयात् परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति, सामान्यत एव अवबोधच्वादिति द्वितीयः, एवं हेतुं बुध्यते, सम्यक् श्रद्धत्ते, बोधेः सम्यकूश्रद्धानपर्यायत्वात् इति तृतीयः हेतुं अभिसमागच्छति, साध्यसिद्धौ व्यापारणतः सम्यक् प्राप्नोतीति चतुर्थः, 'हेडं छउ मत्थे 'त्ति हेतुः - अध्यवसानादिर्मरणकारणं तद्योगात् मरणमपि हेतुरतस्तं, हेतुमदित्यर्थः, छद्मस्थमरणं, न केवलि - मरणं, तस्य निर्हेतुकत्वात् नाप्यज्ञानमरणं, एतस्य सम्यग्ज्ञानित्वात्, अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियते-करोतीति पञ्चमः । प्रकारान्तरेण हेतूनेवाह हेतुना अनुमानस्थापकेन जानाति - अनुमेयं सम्यगवगच्छति, सम्यग्दृष्टित्वादेकः, पश्यति द्वितीयः, बुध्यते श्रद्धत्ते इति तृतीयः एवमभिसमागच्छति - प्राप्नोतीति चतुर्थः, अकेवलित्वात् हेतुना अध्यवसानादिना छद्मस्थमरणं म्रियत इति पञ्चमः । अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह - 'पञ्चे' त्यादि, पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारत्वात्, तत्र हेतुं लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति, मिथ्यादृष्टित्वात्, एवं न पश्यति न बुध्यते नाभिसमागच्छति, हेतुं अध्यवसानादिहेतुयुक्तं अज्ञानमरणं म्रियते-करोति, मिथ्यादृष्टित्वेनासम्यग्ज्ञानित्वात् । अथ प्रकारान्तरेण हेतुनाह हेतुना-लिङ्गेन न जानाति, असम्यगवगच्छति, एवमन्येऽपि चत्वारः, अथ उक्तविपक्षभूतानहेतूनाह - 'पंचे' त्यादि, प्रत्यक्षज्ञानित्वादिना अहेतुव्यवहारित्वादहेतवःकेवलिनः, ते च पञ्च क्रियाभेदात्, तद्यथा - 'अहेउं जाणइ' त्ति अहेतुं न हेतुभावेन, सर्वज्ञत्वेनानुमानानपेक्षत्वाद्धूमादिकं जानाति,
"
५ शतके ७ उद्देश :
॥७९॥