________________
श्रीभग लघुवृत्ती
५ शतके ८उद्देशः
FDIATIMADRIDHIRITEmmmmmmuTRaghunaw hami
भाजनानि, उपकरणानि-लोहकटल्लकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरभंडमत्तोवगरण'त्ति उपकर
साधात् बाह्यानि द्वीन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीनि अवसेयानि, 'टंक त्ति छिन्नटङ्काः 'कूट'त्ति कूटानि-शिखराणि हस्त्यादिबन्धनस्थानानि वा 'सेल'त्ति मुण्डपर्वताः "सिह रित्ति शिखरिणः-शिखरवन्तो गिरयः 'पन्भार'त्ति ईपदवनता | गिरिदेशाः 'लेण'त्ति उत्कीर्ण पर्वतगृहं 'उज्झर'त्ति अपझरः-पर्वततटादुदकस्याधः पतनं 'निज्झर'त्ति निझरः-उदकस्य श्रवणं 'चिल्ल'त्ति चिखिल्लमिश्रोदको जलस्थानविशेषः, 'पल्लण'त्ति प्रल्हादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः। 'अगड'त्ति कूपः 'वावित्ति वापी-चतुरस्रो जलाश्रयविशेषः 'पुक्खरिणित्ति पुष्करिणी-वृत्तः स एव पुष्करवान् वा 'दीहियत्ति सारण्यो 'गुंजालिय'त्ति बक्राः सारण्यः 'सर'त्ति सरांसि स्वयंसम्भूतजलाश्रयविशेषाः 'सरपंतिय'त्ति सर पतयः 'सरसर'त्ति यासु सरःपतिषु एकस्मात् सरसोऽन्यस्मिन् अन्यस्मादन्यत्र एवं सञ्चारकपाटके नोदकं सञ्चरति ताः सरःसर पतयः, बिलपतयः प्रतीताः 'आराम'त्ति आरमंति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उज्जाण'त्ति उद्यानानि-पुष्पादिमदृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि, काननानि-सामान्यवृक्षसंयुक्तानि नगरासन्नानि वनानि-नगरविप्रकृष्टानि वनखण्डाएकजातीयवृक्षसमूहात्मकाः वनराजयो-वृक्षपतयः, खातिका-उपरि विस्तीर्णा अधःसङ्कटखातरूपाः, परिखा-अध उपरि च समखातरूपाः 'अदालग'त्ति प्राकारोपरि आश्रयविशेषाः 'चरिय'त्ति चरिका गृहप्राकारान्तरे हस्त्यादिप्रचारमार्गः, 'दारं द्वारं खडकिका 'गोपुरं' नगरप्रतोली, 'पासाय'त्ति प्रासादो देवभूपानां 'सरण'त्ति शरणानि तृणमयावसरिकादीनि, आपणाहट्टाः शृङ्गाटकं स्थापना व त्रिकं स्थापना 1 चतुष्कं स्थापना + चत्वरं स्थापना* चतुर्मुखं देवकुलादि, महापथो-राजमार्गः, लोही