SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्तौ ५ शतके ७ उद्देश: कृते स्थाने 'अन्नंसित्ति अधिकृतादन्यत्र, 'असंखेखेजभार्ग'ति पुद्गलानामाकस्मिकत्वाञ्चलनस्य निरजत्वादीनामिवासङ्ख्येयकालत्वं, 'असंखिज्जपएसोगाढ'त्ति अनन्तप्रदेशावगाहस्थासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, "निरेए'त्ति निरेजोनिष्कम्पः 'परमाणुपुग्गलस्स'त्ति परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनं-आपरमाणुत्वपरिणतेः तदन्तरं स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽसङ्ख्यात इति, द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालस्यान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्ख्येयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैजस्यान्तरमितिकृत्वोक्तं-सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकालः, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्पत आवलिकाया असख्याती भागः, एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनर्द्विगुणकालकत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं, वचनप्रामाण्यात् , सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासङ्ख्येयकालमानमिति । 'एयस्स णं भंते ! दवट्ठाणाउयस्स'त्ति (स. २१७) द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं भेदः परमाणुद्विप्रदेशकादिस्तस्यायुः-स्थितिः अथवा द्रव्यस्याणुत्वादिभावेन यत् स्थान-अवस्थानं तद्रूपमायुः व्यवस्थानायुस्तस्य 'खित्तठाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायु:-स्थितिः, अथवा क्षेत्रे.एकप्रदेशादौ स्थानं यत् पुद्गलावस्थान तद्रूपमायुः, एवमवगाहनास्थानायुर्भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु-कालत्वादि, | ननु क्षेत्रस्यावगाहनायाश्च को भेदा, उच्यते, क्षेत्रमरगाढमेव, अवगाहनातु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणक्षेत्रा| वगाहित्वमिति, 'कयरे' इत्यादि कण्ठयं, "भंडमत्तोवगरण'त्ति (सू, २१८) भाण्डानि-मृन्मयभाजनानि, मात्राणि-कांश्य ॥७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy