________________
श्रीभग० लघुवृत्तौ
लगतः, न पुनरर्धाद्यंशेन, अर्घादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरेकत्वापत्तिः, न च तयोः सा, स्वरूपभेदात्, 'सत्तमनव में हिं' ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितः स्यात् तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात् यदा तु द्विप्रदेशिकः परिमाण सौक्ष्म्यादेकप्रदेशस्थ भ तदा तं परमाणुः सर्वेण सर्वं स्पृशेत् इत्युच्यते, 'निप्पच्छिमएहिं ति निर्गतः पश्चिमो भङ्गको येभ्यस्ते निष्पश्चिमास्तैरपश्चिमभङ्गकैः त्रिभिरन्त्यैस्त्रिप्रदेशिक मसौ स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितः स्यात् तदा तस्य परमाणुः सर्वेण देशं स्पृशति, यदा तु तस्यैकप्रदेशे द्वौ प्रदेशावन्यत्र एकोऽवस्थितः स्यात् तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशति इत्युच्यते, ननु द्विप्रदेशकेऽपि युक्तोऽयं विकल्पः, तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् नैवम्, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशः स्पृशति ?, त्रिप्रदेशिके तु त्रयापेक्षया द्वयस्पर्शने एकः अवशिष्यते, ततश्च सर्वेण देशौ स्पृशति त्रिप्रदेशिकस्कन्धस्य इति व्यपदेशः साधुः स्यात्, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति, 'तइयणव मे हिं' ति यदा तु प्रदेशिको द्विप्रदेशस्थस्तदा परमाणुर्देशेन सर्वं स्पृशति इति तृतीयः, यदा एकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः, 'पढमतइयसत्तमणव मे हिं'ति यदा द्विप्रदेशको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्र अन्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति । अथ पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र द्रव्यचिन्ता 'असंखिजं ति (सू. ११६) असङ्ख्येय कालात्परतः पुद्गलानामेकरूपेण स्थित्यभावात्, 'एगपएसोगाढे णं'ति क्षेत्रचिन्ता, 'सेए' त्ति सैजः - सकम्पः 'तंमि वा ठाणे' तस्मिन्नधि
५ शतके ७ उद्देशः