________________
श्रीभग० लघुवृत्तौ
'सिय एयइ' (सू.२१२) कदाचिदेजति, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां, तथा व्येजति, 'तं तं भावं'ति शुक्लनीलादिभावं परिणमति, द्विप्रदेशके त्रयो विकल्पाः स्यादेजनं १ स्यादनेजनं २ देशेनैजनं देशेनानेजनं ३ द्वयंशत्वात्तस्येति, त्रिप्रदेशके पञ्च, आद्यास्त्रयस्त एव, द्व्यणुकस्यापि तदीयस्यैकांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्य एज़नं देशयो'वानेजनं इति चतुर्थः, तथा देशयोरेजनं देशस्य चानेजनमिति पञ्चमः, एवं चतुष्प्रदेशकेऽपि, नवरं पद्, तत्र षष्ठो देशयोरेजनं देशयोरेव चानेजनमिति । पुद्गलाधिकारादेवेदं सूत्रवृन्दं, 'ओगा हेज्ज' त्ति (सू. २१३) अवगाहेत - आश्रयेत, छिद्येत- द्विधा भावं यायात्, भिद्येत - विदारणभावमात्रं यायात्, 'नो खलु तत्थ सत्थं'ति परमाणुत्वात्, अन्यथा परमाणुत्वमेव न स्यादिति, 'अत्थेगइए छिज्जेज' त्ति तथाविधबादरपरिणामत्वात्, 'अत्थेगइए नो छिज्जेज्जा' सूक्ष्मपरिणामत्वात्, 'उल्ले सिय'त्ति आर्द्रः स्यात्, 'विणिह यि'त्ति विनिघातं - प्रतिस्खलनमापद्येत 'परियावज्जेज्ज' पर्यापद्येत - विनश्येत्, 'दुपए सिए' त्ति (सू.२१४) यस्य स्कन्धस्य समाः प्रदेशाः स सार्द्धः, यस्य तु विषमाः स समध्यमः सङ्ख्येयप्रदेशादिषु स्कन्धः समप्रदेशिक इतरथ, तत्र यः समप्रदेशिकः स सार्द्धाऽमध्यः, इतरस्तु विपरीतः । 'देसे' इत्यादि (सू. २१५) ९ विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन देशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, देशैरित्यनेन ३, सर्वेणेत्यनेन च त्रय एव, स्थापना - देशेन | देशं १ देशेन देशान् २ देशेन सर्वं ३ देशैर्देशं १ देशैर्दशान् २ देशैः सर्व ३ सर्वेण देशं १ सर्वेण देशान् २ सर्वेण सर्व ३, अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात् ननु यदि सर्वेण सर्वं स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तिः, कथमपरपरमाणुयोगेन घटादिस्कन्धनिष्पत्तिरिति, अत्रोच्यते, सर्वेण सर्वं स्पृशतीति कोऽर्थः ? - स्वात्मना तावन्योऽन्यं
५ शतके ७ उद्देशः
110011