________________
श्रीभगलघुवृत्ती
९ शतके
६ उद्देशः
द्रव्योपमामनिष्टा, एवं कटुकां-परुषा कठोरां-निष्ठुरां चण्डां-रौद्रा तीवां-झगिति शरीरव्यापिका दुःखा-असुखरूपां, दुर्गादुःखाश्रयणीयां, अत एव दुरधिसह्यामिति । इयं च वेदना ज्ञानाद्याराधनाविरहेण स्यादिति 'अणवजे' (सू. २०९) अनवद्यमिति, 'मणं' मानसं प्रधारयिता-स्थापयिता स्यात् चिन्तितवानिति,रइयकडं-मोदकचूर्णादि पुनर्मोदकतया रचितमौदेशिक भेदरूपं 'कंता
त्ति कान्तारं-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वद्दलिया-वाईलिका | | मेघदुर्दिनं 'गिलाण'त्ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तत् ग्लानभक्तं, आधाकादीनां सदोषत्वेनागमेऽभिहि| तानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदान सभायां निर्दोपताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्या| त्वादि, ततश्च ज्ञानादिविराधना स्फुटैव । 'सविसयंसि' (सू.२१०) स्वविषये-अर्थमन्त्रदानलक्षणे गण-गच्छं अखेदेन सङ्ग्रहणन्खीकुर्वन् उपगृह्णन्-उपष्टंभयन् द्वितीयश्च भवो देवभवान्तरितो दृश्यः,चारित्रवतोऽनन्तरो देवभव एव स्यात् ,न च तत्र सिद्धिरस्ति, अलीकेन (सू. २११) भूतनिवरूपेण पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मवतं पालितमित्यादिरूपेण 'असम्भूएणं'ति असद्भूतोद्धावनरूपेण-अचौरे चौरोऽयमिति, 'असंतएणं' असत्येन, तच्च द्रव्यतोऽपि स्याद् यथा. लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं जानामीति, असद्भूतेन-दुष्टाभिप्रायत्वादशोभनरूपेण 'अभक्खाणेणं' आभिमुख्येन ख्यानं-दोषाविष्करणमभ्याख्यानं तेन अभ्याख्यानेन 'अब्भक्खाइ' अभ्याख्याति ब्रूते 'कहप्पगारा' कथंप्रकाराणि-किंप्रकाराणीति, 'तहप्पगारा' अभ्याख्यानफलानीति, 'जत्थेव ण' यत्रैव मानुषत्वादौ अभिसमागच्छति-उत्पद्यते, तत्रैव प्रतिवेदयति अभ्याख्यानफलं कर्म, ततः पश्चाद्वैयति, निर्जरयसीति ॥ पञ्चमशते षष्ठ उद्देशकः॥