________________
श्रीभगलघुवृत्तौ
सजीवमित्यर्थः, 'पडिला भे' त्ति प्रतिलभ्य लाभवन्तं कृत्वा, अध्यवसाय विशेषादेतत्रयं जघन्यायुः फलं स्यादिति भावः, हीलनं जात्याद्युद्घट्टनतः, निन्दनं मनसा, खिंसनं जनसमक्षं, अपमानं-अनभ्युत्थानादिकं, अमनोज्ञेन कदन्नादिना, 'गाहावइस्स' त्ति (सू.२०८) गृहपतेः - गृहिणः 'मिच्छादंसण' त्ति मिथ्यादर्शनप्रत्यया 'सिय'त्ति स्यात् कदाचित् क्रियते भवति, स्यान्नो भवेत् - कदाचिन्न भवति, यदा मिथ्यादृष्टिर्गृहपतिस्तदाऽसौ स्यात्, यदा तु सम्यग्दृष्टिस्तदाऽसौ न स्यात् इत्यर्थः, 'से' त्ति तद् भांडं 'अभिसमण्णा गए 'त्ति गवेषयित्वा लब्धं स्यात् 'तओ'त्ति ततो भाण्डलंभनानन्तरं ' से 'ति तस्य गृहपतेः पश्चात् - समन्वागमानन्तरमेव 'सव्वाओ' यासां सम्भवोऽस्ति ताः क्रियाः प्रतनुकीभवन्ति - इस्त्रीभवन्ति, अपहृतभाण्ड गवेषणकाले हि महत्यस्ता आसन्, प्रयत्नविशेषपरत्वाद् गृहपतेः, तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात् ह्रस्वाः स्युरिति, 'कइए भंड साइज्जेज 'त्ति क्रयिको- ग्राहको भाण्डं स्वादयेत्-सत्यंकारदानतः स्वीकुर्यात्, 'अणुवणीए'त्ति अनुपनीतं समर्पितं न स्यात्, 'पयणुई 'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पच्चात्, गृहपतेस्तु महत्यो, भाण्डस्य तदीयत्वात्, ऋयिकस्य भाण्डे समर्पिते महत्यः, गृहपतेस्तु प्रतनुकाः, इदं भाण्डस्यानुपनीतोपनीतभेदाभ्यां सूत्रद्वयमुक्तं, एवं धनस्यापि वाच्यं तत्र प्रथममेवं - 'गाहावईस्स णं भंते ! भंड किणमाणस्स कइए भंड साइजेज्जा, धणे य से अणुवणीये सिया, कइयस्स णं भंते ! ताओ धणाओ कि आरंभिया किरिया कज्जइ ५१, गाहावइस्स वा ताओ धणाओ कि आरंभिया किरिया कज्जइ ५१, गोयमा ! कइयस्स ताओ धणाओ हेट्ठिल्लाओ चत्तारि किरियाओ कअंति, मिच्छादंसणकिरिया भयणाए, गाहावइस्स णं ताओ सव्वाओ पयणुई भवन्ति', धनेऽनुपनीते क्रयिकस्य महत्यस्ताः स्युः, धनस्य तदीयत्वात् गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् एवं द्वितीयसूत्र समानमिदं तृतीयं, अत एवाह - 'एयंपि जहा भंडे
५ शतके ६ उद्देशः
110411