________________
श्रीभग
५ शतके
लघुवृत्ती
५ उद्देशः
तयति, आहारकशरीरवत् निर्वय॑ च दर्शयति जनानामिति, इह च उत्कारिकाभेदग्रहणं तद्भिन्नानामेव द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति, नान्येषामितिकृत्वेति ॥ पश्चमशते चतुर्थः ॥
'जहा पढमसए त्ति (सू.२००) तत्र छद्मस्थ आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिध्यति इत्याद्यर्थपरं । तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, 'एवं भूयं ति (सू. २०१) यथाविधं कर्म निबद्धमेवंभूतां-एवंप्रकारोत्पन्नां वेदनामसातादिकर्मोदयां वेदयन्ति-अनुभवन्ति,मिथ्यात्वं चैतद्वादिनामेवं, नहि यथा बद्धं तथैव सर्व कर्मानुभूयते, आयुःकर्मणा व्यभिचारात् , तथाहि-दीघकालानुभवनीयस्यायुःकर्मणोऽल्पीयसापि कालेनानुभवो भवति, कथमन्यथा अपमृत्युव्यपदेशः स्यात् ?, कथं वा युद्धे जीवलक्षाणां युगपन्मृत्युरुपपद्यते ?,'अणेवंभूयं ति यथा बद्धं कर्म नैवंभूता अनेवंभूता अतस्तां, यतो बहुस्थितिकं कर्मदलिकं बद्ध्वा अपवर्त्तनाकरणेनाल्पकालेनापि वेद्यते, यदुक्तं सङ्ग्रहिण्यां-'बहुकालवेयणिज्ज'| (४६२)मित्यादि, श्रूयंते ह्यागमे कर्मणः स्थितिरसघातादय इति, नारकाधिकारे तु नैवं, अनैवं, कथं ?, तत्रसम्यग्दृष्टित्वमिथ्यादृष्टित्वादिकारणविशेषात् , यथा कृष्णश्रेणिकजीवादीनां सप्तभीतःप्रथमतृतीयपृथ्व्योर्गमनं जातं, ततो नैवमनैवमित्युच्यते,'संसारमंडलं'ति एवमुक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं. नेतव्यमिति ॥ पश्चमशते पञ्चमः॥ _ 'अप्पाउयत्ताए'त्ति (सू.२०३) अल्पायुष्कताय, अल्पायुर्निबन्धनमित्यर्थः, अल्पायुष्कतया वा, कर्म-आयुष्कलक्षणं प्रकुर्वन्तिबध्नन्ति 'अइवायित्त'त्ति अतिपात्य-विनाश्य मृषावादमुक्त्वा 'तहारूवं तथारूपं भक्तदानोचितपात्रमिति, श्राम्यति-तपस्यतीति श्रमणस्तं, मा हनेत्येवं योऽन्यं प्रति वक्ति स्वयंहनननिवृत्तः सन्नसौ माहनः, न प्रगता असवः-प्राणिनो यसात् तदप्रासुकं,
जेवभूय साहिण्यातासम्पगहा संसार