________________
naturi I
श्रीभग
लघुवृत्तौ ।
५ शतके उद्देशः
AND Twings. HipHINITIHIDHINIOHINIONAWATIONadimanandonwlumn is ined
प्यति ?, इष्यते लोकसङ्ख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह-"संखिन्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्यो"त्ति ॥ उदिनमोह'त्ति (मू. १९६) उत्कटवेदमोहनीयाः, 'उवसंत'त्ति अनुत्कटवेदमोहाः, परिचारणायाः कथञ्चिदप्यभावात् , नतु सर्व- थोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात् ,'नो खीणमोहे'त्ति क्षपकश्रेणेरभावात् 'आयाणेहिं' (मू.१९७) आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति, केवलित्वात् ॥ 'अस्सिं समयंसि' (सू.१९८) अस्मिन् वर्तमानसमये 'ओगाहित्ताणं' अवगाह्य-आक्रम्य 'सेयकालंसि' एष्यकालेऽपि 'वीरियत्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिस्तत्प्रधानं सयोगं| मानसादिव्यापारयुक्तं यत् सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यात् इति | सयोगशब्देन द्रव्यं विशेषितं, सदिति विशेषणं तस्य सदा सत्तावधारणार्थ, अथवा स्वः-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं, ततः कर्मधा| रयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगःस चासौ सद्रव्यः-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति चलानि-अस्थिराणि 'उवकरणाई अङ्गोपाङ्गानि 'चलोवगरणट्ठयाएत्ति चलोपकरणलक्षणो योऽर्थस्तद्भावः चलोपकरणार्थता तया चलोपकरणार्थतया ॥ 'घडाओ घडसहस्सं' (सू. १९९) घटावधेः-घटं निश्रां कृत्वा घटसहस्रं 'अभिनिव्वहित्ता' अभिनिवर्त्य-विधाय श्रुतसमुत्थलब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, उक्कारियाभेएणं' इह पुद्गलानां पश्चधा भेदः खण्डादिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्ठादिरिव, प्रतरभेदोऽभ्रपटलानामिव, चूर्णिकाभेदस्तिलादिचूर्णवत् , अनुतटिकाभेदोऽवटतटवंशभेदवत् , उत्कारिकाभेदः एरंडवीजानामिव, तत्रोत्कारिकाभेदेन भिद्यमानानि लब्धानिलब्धिविशेषाद् ग्रहणविषयतां गतानि-प्राप्तानि, अभिसमन्वागतानि घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि निर्व
teatimemiumbnainmerama
७४||
IALISTINAMAALINITION