________________
श्रीभगलघुवृत्तौ
,
,
तत्र प्रथमं पञ्चधा श्रोत्रादीन्द्रियभेदात्, नोइन्द्रियं त्रिधा - अवध्यादिभेदात् त्रिविधमनुमानं पूर्ववत् शेषवत् दृष्टसाधर्म्यवत्, तत्र (पूर्ववत् ) पूर्वोपलब्धासाधारणलक्षणात् मात्रादिप्रमातुः पुत्रादिपरिज्ञानं शेषवत् यत्कार्यादिलिङ्गान्परोक्षार्थज्ञानं, यथा मयूरोऽत्र के कायितादिति, दृष्टसाधर्म्यवत् यथा एकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एते इति प्रतिपत्तिः औपम्यं यथा गौर्गवयस्तथेति, आगमो द्विधा लौकिकलोकोत्तरभेदात् त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा, आत्मागमअनन्तरागमपरम्परागमभेदाउ, तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, 'तेण परं'ति, गणधरशिष्याणां सूत्रतोऽनन्तरागम: अर्थतस्तु परम्परागमः, ततः परं प्रशिष्याणामिति, 'नो' त्ति आत्मअनन्तरपरंपरागमत्रिके निषेध एव वाच्य इत्यर्थः ॥ 'चरमकम्मं 'ति (सू. १९३) चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते, चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति ॥ 'पणीयं' ति (सू. १९४) प्रणीतं शुभतया प्रकृष्टं 'धारेज्ज' त्ति धारयेद्-व्यापारयेत्, 'एवं अणंतरपरंपर'त्ति अस्यायमर्थः - यथा वैमानिका द्विधा प्रोक्ताः, मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवमत्रापि सम्यग्दृष्टयोsनन्तरोपपन्नकपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपपन्नकानां ज्ञाननिषेधः, तथा परम्परोपपन्नकाः पर्याप्तकापर्याप्तकभेदात् द्विधा, अपर्याप्तकानां च ज्ञाननिषेधः, पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा, अनुपयुक्तानां ज्ञाननिषेधः, आलापं - (सू. १९५) सकृज्जल्पनं संल्लापं मुहुर्मुहुर्जल्पनं, 'लद्धाओ' तदवधेर्विषयं गताः, 'पत्ताओ' तदवधिना सामान्यतः प्राप्ताः - परिच्छिन्नाः, अभिसमन्वागता- विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं सम्भिन्नलोकविषयं यच्च लोकनाडीग्राहकं तन्मनो वर्गणाग्राहकं स्यादेव, यतो योऽपि लोकसङ्ख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही, यः पुनः सम्भिन्नलोकविषयोऽसौ कथं न मनोद्रव्यग्राही भवि
५ शतके
४ उद्देश :