________________
श्रीभगलघुवृत्तौ
निन्दह मनसा 'खिंस' त्ति जनसमक्षं, 'गरह'त्ति अन्यजनसमक्षं 'अवमन्नह' त्ति तदुचितप्रतिपन्यकरणेन 'परिभवह' त्ति परिभवः समस्तपूर्वोक्तपदकरणेन अग्लान्या- अखेदेन 'संगिण्हह' सङ्ग्रहीत - स्वीकुरुत, 'उवगिण्हह' उपगृहीत- उपष्टम्भं कुरुत, 'अंतकर' त्ति भवच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह- 'अंतिमसरीर' त्ति चरमशरीर इति, 'झाणंत रियाए 'त्ति अन्तरस्य- विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका, आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमिति भावः, तस्यां वर्त्तमानस्य ॥ 'कप्पाओ' (सू. १८८) कल्पाद्-देवलोकात् 'सग्गाओ' त्ति खर्गाद्-देवलोकदेशात् प्रस्तटात् 'विमाणाओ' प्रस्तटैकदेशात् 'वागरणाई' व्याक्रियन्त इति व्याकरणानि - अर्थाः अधिकृता एव, 'देवाणं 'ति (सू. १८९) 'से किं खाईणं भंते! देवा इय वत्तव्वं सिय'त्ति से इति अथार्थः, खाई पुनरर्थः, णमिति वाक्यालङ्कारे, देवा इति यद्वस्तु तद्वक्तव्यं स्यात्, 'नोसंयता' इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वात्, मृतशब्दापेक्षया परलोकीभूतशब्दवदिति, 'विसिस्सइ' त्ति (सू. १९०) विशिष्यते - विशिष्टा स्यात्, 'अर्द्धमागह'त्ति भाषा षड्विधा, यथा प्राकृतसंस्कृतशौरसेनीमागधीपैशाची अपभ्रंशरूपाः, तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणमस्यामस्ति सा अर्धं मागध्या इति व्युत्पयाऽर्द्ध| मागधी 'उवासगस्स' त्ति (सू. १९१) केवलिनमुपास्ते यः श्रवणाकाङ्क्षी तदुपासनामात्रपरः सन्नसौ केवल्युपासकः, 'तप्प| क्खियस्स'त्ति केवलिपाक्षिकस्य स्वयं बुद्धस्येति, 'पमाणे' त्ति (सू. १९०) प्रमीयते येनार्थस्तत्प्रमाणं 'पञ्चक्खे' अक्षं - जीवं प्रति गतं प्रत्यक्षं 'अणुमाणे' अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चात् मीयतेऽनेनेत्यनुमानं 'ओवम्मे' उपमीयते - सदृशतया गृह्यते वस्तु अनयेत्युपमा सैव औपम्यं ' आगमि 'त्ति गुरुपारम्पर्येणैतीत्यागमः, द्विविधं प्रत्यक्षं - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च,
५ शतके ४ उद्देशः
॥७३॥