SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती ५ शतके उद्देश Ameriminatamunami Kumanmashtamily milan and जीवपदे पृथिव्यादिपदेषु बहुत्वाजीवानां सप्तविधबन्धका अष्टविधवन्धकाश्चेत्येक एव भङ्गो लभ्यते, नारकादिषु तु त्रयं, तथाहि| सर्व एव सप्तविधवन्धकाः स्युरित्येकः, सप्तविधबन्धका अष्टविधवन्धकश्चेति द्वितीयः, सप्तविधवन्धका अष्टविधबन्धकाश्चेति तृतीयः, 'निदाए'त्ति निद्रां-सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत, 'पयलायएत्ति प्रचलां-ऊर्ध्वस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत, 'इत्थीगभति (मू. १८६) स्त्रीसम्बन्धी गर्भ:-सजीवपुद्गलपिण्डः स्त्रीगर्भस्तं, 'संहरमाणे त्ति अन्यत्र नयन् , इह चतुर्भङ्गीगर्भाद्-गर्भाशयादवधेगर्भ-गर्भाशयान्तरं संहरति-प्रवेशयति इत्येकः, गर्भाद् अवधेर्योनि-गर्भनिगमद्वारं संहरति योन्या उदरान्तरं प्रवेशयति २ तथा योनितो-योनिद्वारेण गर्भ संहरति ३ तथा योनीतो-योनिसकाशात् योनि संहरति-नयति, योन्याउदरानिष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४, एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह-'परामुसि'त्ति परामृश्य २ तथाविधकरव्यापारेण संस्पृश्य स्त्रीगर्भ अव्याबाधमव्याबाधेन सुखंसुखेन योनिद्वारेण निष्काश्य गर्भ-गर्भाशयं संहरति, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्त्तनात् , तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यैव निर्गच्छति इति, अथ सामर्थ्य दर्शयति-नखाग्रे 'साहरित्तए' संहत्तुं-प्रवेशयितुं 'नीहरित्तए नखशिरसो रोमकूपाद्वा निहत्तुं-निष्काशयितुं 'छविच्छेदं ति गर्भस्य हि छविच्छेदमकृत्वा नखादौ प्रवेशयितुमशक्यत्वात् , 'एसुहुमे णं'ति इतिसूक्ष्म-इतिलध्विति। 'कुमा| रसमणे'त्ति (सू.१८७) षड्वर्षजातस्य तस्य प्रव्रजितत्वाद् , आह-'छव्वरिसो पव्वइओ निग्गंथ रोइऊण पावयणं'ति, एतदेवाश्चर्य, अन्यथा वर्षाष्टकादारान दीक्षा स्यात् , 'कक्ख'त्ति कक्षायां प्रतिग्रहं रजोहरणमादाय 'नाविया में नौका-द्रोणी मे-ममेयमिति, 'अदक्खु'त्ति अद्राक्षुः-दृष्टवन्तः, ते च क्षुल्लकोचितां चेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः, 'हीलेह' जात्युद्घाटनतः,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy